Book Title: Yadusundara Mahakavya
Author(s): Padmasundar, D P Raval
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 192
________________ यदुसुन्दरमहाकाव्य दिवसकलितालित्वव्यापादनादतिरंहसा दिशि दिशि तमःपारावारस्त्रिविष्टपमानशे । इह हि मलिनाः प्रायः सीमक्रमव्यतिलङ्घना न्मलिनमलिनाचाराः स्वैरं चरन्ति विशृङ्खलाः ॥१३॥ प्रसरतितरां प्राचीमूलारिकमभ्रमुवल्लभ स्फुटकटगलद्दानोद्दामप्रवाहभरस्तमः । दशशतकरस्तब्धः किं वा रवेः परिभावतो गगनभवनाभोगः सद्यः पपात भुवस्तले ॥१४॥ उपरि लसति न्युजे शालाजिरप्रतिमेऽम्बरे दिनमणिदशाकर्षज्वालावलिभ्रमिभिधृता ।। विगलति गुरुभूय ध्वान्तं तदञ्जनपुञ्जजा प्रसृमरतरा व्यालुम्पन्ती जगज्जनितार्थताम् ।।१५।। सुतनु ! जनतागावः पर्यायताव्यवधाभिधाः __ स्वयमधिकृतैर्गासाहौरनायिषतामुना । तदवतमसान्नांध्यं गोस्वामिना सह नेति चेद् । नयनविषयं कस्माल्लोको घटादि न चेक्षते ॥१६॥ अयि ! परिचितास्तारैस्तारैः प्रसूनशरेषु नि-- गमदनिभैवन्ति दिग्धाः स्फुरन्त्यसिताम्बराः । निशि शशिवियुक्तायां मा भूमयि त्वमसूयिनी किमपि हि समन्दाक्षा मन्द दिशोऽप्यभिसारिकाः ।।१७।। तमसि तदलं द्रव्यत्वादिव्यवस्थितिसन्धया मतमतितरामौलूकं तत्परीक्षणताक्षमम् । अयि ! किल कुलं नोलूकानां प्रकाशयति स्फुटं जगति सकलं वस्तुस्तोमं तमोनिचितेऽपि हि ।।१८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206