Book Title: Yadusundara Mahakavya
Author(s): Padmasundar, D P Raval
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 191
________________ पद्मसुन्दरसरिविरचित नय नयनयोः पद्यां सन्ध्यां नरीनृतती नटी .. मरुणसिचयाकल्पां रङ्गाङ्गणे सुरवर्त्मनि । अयि परिलसत्ताराहारावलीरजनीकर-- स्तरलिततरां तस्या भूषा विलोलविलोचने ।।७।। निकषमिषतां बिभ्रत्यस्ताचलस्तु शिलातले द्रुतकनक पिण्ड क्रीत्वा विकर्तनमण्डलम् । जलनिधिरये दत्ते साक्षात्परीक्ष्य पितृप्रसू हुतभुजि नभोहस्ते तारावराटककोटितम् ।।८।। इदमयि ! वियत्स्वर्गङ्गायाः प्रवाहपरम्परा विलसतितरां यस्या यादास्युडूनि चरन्ति हि । मकरमिथुनग्राहाः सध्यंकुलीर इतोऽप्सरः सवनधुवनत्रासादासादितानि निमग्नताम् ।।९।। अजनि रजनी योगिन्येषा सुसिद्धिमती ध्रुवं कमनमजिजीवद्या पद्माकर सममूमुह्त् । जगदपि खपुष्पीयत्ताराऽनुकारि विभूतिभि निरधिकरणं दृष्टादृष्टाभिराभिरदीदृशत् ॥१०।। प्रणयिनि ! वियद्गङ्गारङ्गद्रथाजनितम्बिनी--- कुलविरहजाश्रूणां मन्ये गलज्जलबि. दवः वियति विचरन्तीमास्ताराः स्फुरत्तरमौक्तिक __ भ्रमभरभृतो धारास्तासामनुक्रमसङ्कमाः ।।११।। सुरमिथुनताव्यामोहाय प्रसूनशरस्य किं प्रहितविशिखाः संलक्ष्यन्ते विहायसि तारकाः । प्रतिफलतु वा पञ्चेपूक्तिः प्रपञ्चनिरुक्तिका । श्रुतपथि यथारूढा पञ्चाननध्वनितार्थता ।।१२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206