Book Title: Yadusundara Mahakavya
Author(s): Padmasundar, D P Raval
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 190
________________ ॥ द्वादशः सर्गः ॥ रणरणकतः सायं सायंतनीं सुषमां यदुः __ प्रसृमरतरां प्रक्षाचक्षुर्निरीक्ष्य स चक्षुषा । करिपरिलसत्सिन्दूराभां तभिरविमिश्रणा . दिव नववधूं नीत्वोपालोकयत्सविधं च ताम् ॥१॥ अरुणतरुणः स्फारस्फारैः करैरनुरागवान् वरुणककुभं कान्ते ! कान्तामुपाश्लिषदलथः । नवधवपरीरम्भारम्भादिवोत्तमकुङ्कुम द्रवनवरसैदिग्धा मुग्धा विभात्यपरावधूः ।।२।। इह हि मिहिरः पायं पायं भरादिव वारुणी स्वरुचिविभवं दायं दायं कृशानुकृशाश्विने । प्रथयतितरां तैलम्पातां . तमिस्रकणान्किरन् स्खलितललितक्रीडाब्रीडागतं दधदम्बरे ।।३।। तरणितरुणश्लेषे सैषा विशेषलसत्तम श्चिकुरनिकरेऽमुष्मिन्नायल्लकं किल लोहितः । द्युतिपरिकरैः प्रत्यक्काष्ठा नवोढवधूरहो सुदति ! दधती शोभारम्भं बभार निभालय ॥४॥ दशशतकरोऽप्युच्चैयाधामतोद्धतधामभि र्धवलितधरो ध्वान्तध्वंसी प्रतापपरंतपः । अपि विधिविधौ वामे ! वामेतरव्यवसायधी रजनि रजनिप्रारम्भे हा रविः स गलच्छविः ॥५॥ दिवसकरिणं सन्ध्या सिंही जघान सपद्मकं प्रखरनखरैरस्तक्ष्माभृच्छिरस्युदगादियम् । दिवि भृशमसृग्धारासारप्रवाहपरम्परा विदुषि ! विदुजास्ताराकराः स्फुरन्त्यथ शुक्तिजाः ॥६॥ २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206