Book Title: Yadusundara Mahakavya
Author(s): Padmasundar, D P Raval
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 187
________________ १६६ Jain Education International पद्मसुन्दरसूरिविरचित सा मुहुर्मुहुरुदीक्ष्य भर्तृजै रङ्कितं नखपदैः कुचद्वयम् । सस्मितं च यदुमप्यसूयया कुञ्चितकुटिभेव चक्रुषी ॥ ६१ ॥ आकलय्य स च तां तथाऽब्रवीत् क्षन्तुमर्हसि न मन्तुमद्य मे । कोपलोपनकृतेऽथ कोपने ! त्वन्नखव्रणितमस्तु मे वपुः ।। ६२ ।। सुभ्रु ! किं न घटते पयोधरे शक्रचापमिव मन्नखाङ्कनम् । तन्मयेति विगणय्य निर्ममे कोप एष यदि तेऽस्त्वनुग्रहः ॥६३॥ त्वद्रते विदुषि ! खण्डशर्करा - माधुरीपरिणते स्पृहाकरम् । तन्मिथो नखविलेखनं कटु - स्वादु किं न मरिचावचूर्णनम् ||६४|| किन्तु मन्तुकर एष मे करः किं न ते व्यजनवाहनाकरः । किङ्करः वलमभरालसेक्षणे ! स्वापराधशमनाय नायकः ||६५॥ व्रीडनीडशरणं तवोचितं साध्वि ! साधु मम नव्यसङ्गमे । सोऽहमेव निरपत्रपो मुहुः प्रार्थये त्वदनुषङ्गनर्म यत् ||६६ || For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206