Book Title: Vyavahar Sutram Part 04
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
सप्तम
उद्देशकः १३२४ (A)
अच्छयंते च दाऊणं, सयं सेजायरे घरं । अणुसट्ठादिऽणिच्छंतं, ववहारेण छावए ॥ ३३२१॥
अथ शय्यातरः प्रमाद्यति न छादयति तदा अन्यः कश्चिदभ्यर्थ्यते, ततो येन सा पडाली छादिता सोऽपि शय्यातरो भवति। अथान्यः कश्चनापि छादयिता न विद्यते तदा शय्यातरे स्वयं गृहं दत्त्वा प्रमादेनाऽनाच्छादयति अनुशिष्टिरनुशासनं क्रियते, आदिशब्दाद् धर्मकथा | च, तथापि छादयितुमनिच्छन्तं व्यवहारेण 'येन गृहं दत्तं तेन छादनमपि कर्त्तव्यम्। न च पूर्वमाच्छादनं विचारितं न चास्माकमकिञ्चनानां किञ्चिदस्ति येन छादयाम' इत्येवं राजकुलेऽपि गत्वा व्यवहारकरणेन छादयेत् ॥ ३३२१ ॥
तदेवमवक्रयसूत्रं भावितम्, इदानीं क्रयिकसूत्रमतिदेशतो व्याख्यानयति - एसेव कमो नियमा, कइयम्मि वि होइ आणुपुव्वीए । नवरं पुण नाणत्तं, उच्चत्ता गेण्हती सो उ ॥ ३३२२॥ य एव क्रमोऽवक्रयिकेऽभिहितः स एव क्रमो नियमात् क्रयिके आनुपूर्व्या भवति।
सूत्र २३
गाथा ३३२१-३३२६
अवग्रहानुज्ञापनाविधिः
१३२४ (A)
For Private And Personal Use Only

Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606