Book Title: Vyavahar Sutram Part 04
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् सप्तम
उद्देशकः १३२८ (B)
अग्रेतनो राजा कालगतो नवोऽभिषिक्तः, तेषु पुनः कथम्भूतेषु इत्याह- संस्तृतेषु न कोऽपि . तद्राज्यं विलुम्पतीति भावः । तथा अव्याकृतेषु येषां दायादानां सामान्यं तद्राज्यं तैरविभक्तेषु, ४ अव्यवच्छिन्नेषु तस्मिन्नेव वंशे अनुवर्तमानेषु, अत एव अपरपरिगृहीतेषु सैवावग्रहस्य पूर्वा अनज्ञापना तिष्ठति, या तस्य वंशस्यादावनज्ञापना कृता। कियन्तं कालं पुनः सैव पूर्वानुज्ञा | : तिष्ठति? तत आह- यथालन्दमप्यवग्रहः, किमुक्तं भवति ? यावन्तं कालं स वंशोऽनुवर्त्तते तावन्तमपि कालमवग्रहे राजावग्रहे सैव पूर्वानुज्ञापना वर्त्तते, न पुनरन्यस्मिन् राज्ञि उपविष्टे, स भूयोऽवग्रहमनुज्ञापयितव्यः एष प्रथमसूत्रस्यार्थः। सम्प्रति द्वितीयस्योच्यते-से तस्य भिक्षो 14 सूत्र
२५-२६ राज्यपरावर्तेषु अन्येषु राज्यं प्रतिपन्नेषु, असंस्तृतेषु त्रुटितपूर्वराज्यसंस्थितिषु, व्याकृतेषु अन्यवंशीयैः दायादैर्वा विभज्य विभज्य ममीकृतेषु, व्यवच्छिन्नेषु व्यवच्छिन्नपूर्ववंशेषु, अत |३३३४-३३३९ एव परपरिगृहीतेषु भिक्षुभावस्यार्थाय भिक्षुभावो नाम ज्ञानदर्शनचारित्राणि तेषामेव राजपरावर्ते
अवग्रहभिक्षुशब्दप्रवृत्तिनिमित्तत्वाद्। एतच्च प्रथमोद्देशके सप्रपञ्चं भावितं, तस्यार्थाय स भिक्षुभाव:
सामाचारी परिपूर्णो भूयादित्येवमर्थमित्यर्थः। अन्यथा सचित्तादीनामननुज्ञापने अदत्तादानं स्याद्, द्वितीयमपि वारमवग्रहो अनुज्ञापयितव्यः एष द्वितीयस्यापि सूत्रस्यार्थः॥ साम्प्रतमेनामेव व्याख्यां
१३२८ (B) भाष्यकृदप्याह
गाथा
For Private And Personal Use Only

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606