SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् सप्तम उद्देशकः १३२८ (B) अग्रेतनो राजा कालगतो नवोऽभिषिक्तः, तेषु पुनः कथम्भूतेषु इत्याह- संस्तृतेषु न कोऽपि . तद्राज्यं विलुम्पतीति भावः । तथा अव्याकृतेषु येषां दायादानां सामान्यं तद्राज्यं तैरविभक्तेषु, ४ अव्यवच्छिन्नेषु तस्मिन्नेव वंशे अनुवर्तमानेषु, अत एव अपरपरिगृहीतेषु सैवावग्रहस्य पूर्वा अनज्ञापना तिष्ठति, या तस्य वंशस्यादावनज्ञापना कृता। कियन्तं कालं पुनः सैव पूर्वानुज्ञा | : तिष्ठति? तत आह- यथालन्दमप्यवग्रहः, किमुक्तं भवति ? यावन्तं कालं स वंशोऽनुवर्त्तते तावन्तमपि कालमवग्रहे राजावग्रहे सैव पूर्वानुज्ञापना वर्त्तते, न पुनरन्यस्मिन् राज्ञि उपविष्टे, स भूयोऽवग्रहमनुज्ञापयितव्यः एष प्रथमसूत्रस्यार्थः। सम्प्रति द्वितीयस्योच्यते-से तस्य भिक्षो 14 सूत्र २५-२६ राज्यपरावर्तेषु अन्येषु राज्यं प्रतिपन्नेषु, असंस्तृतेषु त्रुटितपूर्वराज्यसंस्थितिषु, व्याकृतेषु अन्यवंशीयैः दायादैर्वा विभज्य विभज्य ममीकृतेषु, व्यवच्छिन्नेषु व्यवच्छिन्नपूर्ववंशेषु, अत |३३३४-३३३९ एव परपरिगृहीतेषु भिक्षुभावस्यार्थाय भिक्षुभावो नाम ज्ञानदर्शनचारित्राणि तेषामेव राजपरावर्ते अवग्रहभिक्षुशब्दप्रवृत्तिनिमित्तत्वाद्। एतच्च प्रथमोद्देशके सप्रपञ्चं भावितं, तस्यार्थाय स भिक्षुभाव: सामाचारी परिपूर्णो भूयादित्येवमर्थमित्यर्थः। अन्यथा सचित्तादीनामननुज्ञापने अदत्तादानं स्याद्, द्वितीयमपि वारमवग्रहो अनुज्ञापयितव्यः एष द्वितीयस्यापि सूत्रस्यार्थः॥ साम्प्रतमेनामेव व्याख्यां १३२८ (B) भाष्यकृदप्याह गाथा For Private And Personal Use Only
SR No.020937
Book TitleVyavahar Sutram Part 04
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy