Book Title: Vruttabodh
Author(s): Shwetambar Sadhumargi Jain Hitkarini Samstha
Publisher: Shwetambar Sadhumargi Jain Hitkarini Samstha

View full book text
Previous | Next

Page 41
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मन्दाक्रान्ता प्राकचत्वारस्तदनु गुरुतां चेद्दशैकादशौ द्वौ, प्राप्तौ वर्णी प्रतिपदमय छादशान्त्यौ तथाऽन्त्यौ । तुर्यः षभिस्तदिह तुरगैर्लब्धविश्रामधाम्नी, मन्दाऽऽक्रान्तांम-म-न-त त गाद्गुन गायन्ति धीराः॥ (अन्वयाः) चेत् प्रतिपदं पाक चत्वारस्तदनु दशैकादशौ द्वौ अथ द्वादशान्त्यौ तथा अन्त्यौ वर्णै। गुरुताम्प्राप्तौ, तत् तुर्यैः षडभिः तुरगैः लन्धविश्रामधाम्नीम् इह धीराः म-भन-त-त-गाद्न मन्दाऽऽक्रान्तां गायन्ति । (टीका) यदि चेत् प्रतिपादं पूर्व चत्वारों वर्णास्तत्पश्चादशैकादशौ दो वर्गों, अनन्तरं द्वादशान्त्यो= त्रयोदश-चतुर्दशी, एवमन्त्यौ= षोड़श-सप्तदशौ गुरवः स्युः, तदा क्रमेण चतुर्भि: षभिः सप्तभिश्च प्राप्तविराम छन्दःशास्त्रे पण्डिताः मगणभगण-नगण-तगण-तगणेभ्यः परत्र गुरुभ्यामुपलक्षितां मन्दाऽऽ क्रान्तां कथयन्ति । अत्र प्रतिचाणम् (ऽऽऽsillssssiss) इति स्वरवर्णचिह्नानि ॥ (प्रति०) तदनु= तत्पश्चात् । प्रतिपदम् प्रतिपादम्। तुरगैः सप्तभिः । तत् तदा ! इह-छन्दःशास्त्रे लब्ध विश्रामधाम्नी प्राप्तविरामस्थानाम् । गायन्ति= भाषन्ते। धीराः पण्डिताः ॥ (१) द्वादशस्यान्त्याविति विग्रहः । । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63