Book Title: Vruttabodh
Author(s): Shwetambar Sadhumargi Jain Hitkarini Samstha
Publisher: Shwetambar Sadhumargi Jain Hitkarini Samstha
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.. (अन्वयः) चेत् सर्वपादेषु सर्वत्र वर्णत्रिके मध्यम मध्यम लघुत्वं व्रजेत्, अन्त्यवर्गविरत्या सदा रैः रतां तां तदा कोविदाः स्रग्विणीम् अचिरे ।।
(टीका) यदि चेत् सर्वेषु पादेषु सर्वस्मिन् वर्णत्रयसंधे मध्यमं मध्यममक्षरं लघुत्वं व्रजेत्= प्राप्नुयात् , अन्त्यवर्ग:पादान्तस्थैर्वर्णविरत्या= विरामेण उपलक्षिताम् ( उपलक्षणे तृतीया ) सदा सर्वदा :- रगणैः सह रतां रंगणैर्बद्वामिति यावत् तां तदा कोविदा:-- विद्वांसः स्रग्विणीम् उक्तवन्तः । तेनात्र-(SISSISSISSIS) इत्येष प्रतिसाद स्वरवर्णन्यासो बोध्यः
इहापि पक्षान्तरं, तथाहि--
(टीका) सर्वत्र वर्णत्रिके ब्राह्मण-क्षत्रिय-वैश्यात्मके (शू. देषु ताइक्सौन्दर्यस्य कचिदप्यदृष्टचरत्वात) (कुले उत्पन्नाया:) . पस्थाः सर्वपादेषु प्रतिवरणनिक्षेपेषु मध्यम- मध्यमस्थान का टिप्रदेशरूपमिति यावत् लघुत्वं ब्रजेत्, अन्त्यवर्गः- चाण्डा लादिभिः सह विरत्या मोत्यकरणेन विशिष्टजातीयकैः सदारे: स्त्रीसहितैरपि सह रताम् = अनुरक्तां, यद्वा सत= सज्जनान् : अन्तिः प्राप्नुवन्तीति सदारास्तैः सह रताम, अथका संदा सर्वहारापि-धने रतां धनवती स्त्रग्विणीं-मालावती कोविदा
उक्तवन्त इति ॥ ... (प्रति०) लघुत्व= लघुताम् । अचिरे- उक्तवन्तः । व्याख्यातमन्यत् ॥
For Private And Personal Use Only
Loading... Page Navigation 1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63