Book Title: Visesavasyakabhasya Part 3
Author(s): Dalsukh Malvania, Bechardas Doshi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 189
________________ ७७२ विशेषावश्यकभाष्ये [नि० ७१८अथ चायं विस्तरनमस्कार इति उच्यते, तथाऽन्येवंवक्तव्य इति दर्शयति उसमातीणमणंतरसिद्धादीणं जिणातियाणं च । वित्थरतो पंचविधो ण वि संखेवो ण वित्थारो ॥३९३०॥ उसभातीण० इत्यादि। ऋषभाऽजितसम्भवाभिनन्दनमुमतिपद्मप्रभमुपार्चचन्द्रमभइत्यादिमहावीरवर्धमानस्वामिपर्यन्तेभ्यश्चतुर्विंशतयेऽहंद्यः तथा सिद्धेभ्योऽपि विस्तरेण अनन्तरसिद्धेभ्यः, परम्परसिद्धेभ्यः द्वितीयसमय-तृतीयसमयादिसंख्येयाऽ. नन्तसमयसिद्धेभ्यः, तथा तीर्थ-लिङ्ग-चारित्र-प्रत्येकबुद्धादिविशेषणविशिष्टेभ्यः तीर्थकरसिद्धेभ्यः, अतीर्थकरसिद्धेभ्यः, अतीर्थसिद्धेभ्यः, इत्येवमादिरनन्तशो विस्तरः । तस्मादयं पञ्चविधः नमस्कारः अयुज्यमानक एव, संक्षेप-विस्तरानात्मकत्वात् , बन्ध्यापुत्रनमस्करणबत् । अत्र प्रतिविधीयते-न, संक्षेप-विस्तरानात्मकत्वात्' इत्यसिद्धः । कथम् ? यस्मात् संक्षेपात्मकोऽयम् । ननु संक्षेपः सिद्ध-साधुमात्रकोऽभिहितः, कारणवशात् कृतार्थाsकृतार्थपरिग्रहात् साधुमात्रनिर्देशाद्वा । कारणनिरपेक्षतायां कथमयं संक्षेपः । आचार्य आह-त्वया तावत् कारणवशात् साधुमात्रसंक्षेप मुक्वा सिद्ध-साधुसंक्षेपोऽभ्युपगतः । एवमेवास्माकमपि पंचविह(पञ्चविध)नमस्कारः संक्षेपात्मको भविष्यति, कारणवशात् तथाभ्युपगम्यमानत्वात्, सिद्ध-साधुसंक्षेपवत् । तच्च प्रतिविशिष्टभक्त्युत्पादनादनन्तगुणविधानात् सकलनिर्जरानिमित्तं मार्गोपदेशकादिप्ररूपणायाम् (गा०३९३५) अभिहितं पञ्चविधकारणम् । इति सिद्धः पञ्चविधनमस्कारसंक्षेप इति । तस्मात् अयुज्यमानत्वं साधनम् अप्रमाणम् असिद्धहेतुकत्वात्, चाक्षुषत्वसाध्यशब्दानित्यत्ववत् । ___यच्च साधुग्रहणेनार्हदादयो गृह्यन्ते तत् सत्यम्, यतोऽहंदादयः प्रत्येक सर्बसाधवः, अहंदादयः साधव एवेत्यवधारणात् । साधवस्तु न सर्वेऽहंदादयः, केचिदहन्तो भवस्थकेवलिनः, केचित् सिद्धाः परिनिर्वृतत्वात्, केचिदाचार्याः, केचिदुपाध्यायाः, केचिदेतच्चतुष्टयस्थानमप्राप्ताः शिष्यमाणत्वात् साधव एव, नार्हदादिचतुष्कमिति एकपदव्यभिचारान्न तुल्याभिधानता, साधुमात्रेण पूजानवाप्तेः । प्रमाणमपि-साधुमात्रनमस्कार(रः) विशिष्टार्हदादिगुणनमस्कृतिफलप्रापणसमर्थों न भवति, तत्सामान्याभिधाननमस्कारत्वात् , मनुष्यमात्रनमस्कारवत् जीवमात्रनमस्कारवद्वा ॥३९३०॥ अत एतदर्थानुवाद्ययं गाथाप्रपश्चःजति वि जतिग्गहणातो होति कतं गहणमरुहतादीणं । वध वि ण तग्गुणपूआ जतिगुणसामण्णपूयातो ॥३९३१॥

Loading...

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346