Book Title: Visesavasyakabhasya Part 3
Author(s): Dalsukh Malvania, Bechardas Doshi
Publisher: L D Indology Ahmedabad
View full book text
________________
विशेषावश्यकभाष्ये
[ नि० ७२७
किं पुण तं सामइयं ? 'सर्वसावद्ययोगविरतिः सामायिकम्' इत्युक्ते कः 'सर्व'शब्दस्यार्थः ? क्रिया-कारकभेदकथनम् पर्यायान्तरैर्निरूपणमिति । 'सृ गतौ' इति धातुः, तस्यौणादिके 'व'प्रत्यये सर्वशब्दो वा निपात्यते । स्त्रियते स इति, स्त्रियते तेन वा सर्वः ॥४२१०॥
८३८
तच्च कइ (ति) विधमिति प्रश्ने
णामं ठवणा दविए आदेसं चेव णिरवसेसं च ।
त सव्वधत्तसव्वं च भावसव्वं च सत्तमयं ॥ दारगाधा ||७२७ ||४२११ ॥ णामं ठवणा दविए । नाम [ सर्वम् ], स्थापनासर्वम्, द्रव्यसर्वम्, आदेशसर्वम्, निरवशेषसर्वम्, सर्वधत्तसवम्, भावसर्वमिति सप्त वा सर्वम् । तत्र नामस्थापने पूर्ववत् ॥७२७॥४२११ ॥
-
द्रव्यसर्वं भण्यते
कसिणं दव्वं सव्वं तद्देसो वा विवक्खयाऽभिमतो । दव्वे तसम्मिय सव्वासव्वे य चतुभंगो ||४२१२||
कसिणं दव्वं सव्वं । यद् विवक्षितं द्रव्यमङ्गल्यादि तत् कृत्स्नं परिपूर्णमनून सर्वैरवयवैः सर्वमुच्यते - सकलमित्यर्थम् । एवं तस्यैव द्रव्यस्य कश्चित् सावयवो दे(दॆ)शः कृत्स्नतया स्वावयवपरिपूर्णतया यदा सकलो विवक्ष्यते तदा देशोऽपि सर्वः, एवमुभयस्मिन् द्रव्ये तदेशे च सर्वस्वान् (त्) । तयोरेव यथास्वमपरिपूर्णता -. यामसर्वं तत्वम् । ततश्चतुर्भङ्गी - द्रव्यं सर्वम् देशोऽपि सर्वः, द्रव्यं सर्वं देशः असर्वः, देशः सर्वः द्रव्यमसर्वम्, देशोऽसर्वः द्रव्यमप्यसर्वम् ॥४२१२ ॥
सव्वासव्वे दव्वे देसम्म य णात मंगुलिद्दव्वं ।
संपुर्ण देखणं पव्वं पब्वेगदेसोऽयं ॥ ४२१३ ॥
सव्वासच्वे दव्वे । अत्र यथाक्रममुदाहरणम् - सम्पूर्णमङ्गुलिद्रव्यं सर्वम्, तदेव देशोनं द्रव्यमसर्वम्, तथा देशः पर्व तत् संपूर्ण देशसर्वम्, पर्वैकदेशः देशाऽसर्वम् एवं द्रव्यसर्वम् ||४२१३ ॥
१ पाणिनीये उणादिप्रकरणे ' सर्व नीघृष्व - रिष्व ० ( पा० १ सू० १५९) इत्यनेन सूत्रेण "सृतम् अनेन विश्वम् इति सर्वम्" इत्येवं सर्व' शब्दो 'व' प्रत्ययान्तो निपात्यते । अमरकोशवृत्तिकारः क्षीरस्वामिभट्टस्तु सर्वति सरति वा सर्वम्" (-अमर० क्षीरस्वा० टी० पृ० २५० ) इत्येवं सर्वशब्द व्युत्पादितवान् । २ पुव्यप्पन्वेग त ।

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346