Book Title: Visesavasyakabhasya Part 3
Author(s): Dalsukh Malvania, Bechardas Doshi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 216
________________ नि० ७२४] सामायिक करणद्वारम् । ७९९ भण्णति भवचरिमम्मि वि इत्यादि । उच्यते, भवचरिमे स्वायुष्कपर्यन्तसमये शरीरसंघात-परिशाटावेवोभयम् नैकः परिशाट एवं, क तर्हि परिशाटः ! उच्यते, 'परभवपढमें' इहभवाद्वर्त्तमानादेष्यः परभवः, तस्य प्रथमसमये परभवायुष्कस्याये समये परभवशरीरसर्वसंघातश्च इहमवशरीरसर्वशाटश्चेति एक एवासौ समय इति । स च संघातनासमयोऽपनीत एव, तस्मात् परभवायुष्कमिति शाटनसमयस्यान्यस्याभावात् द्वितीयो नापनीयते । तस्मान्न द्विसमयोनं पल्योपमत्रयमिति युक्तिसिद्ध आगमः ॥४०४६॥ एवमप्यन्यो दोषस्तत्प्रकाशनायाहजति परपढमे साडो णिविम्गहतो य तम्मि संघातो । णणु सव्वसाड-संघादणाओ समए विरुद्धाओ ॥४०४७॥ जति परपढमे साडो इत्यादि । यदि एण्यतः परभवस्य प्रथमसमये इहभवसर्वशाटः, निविंग्रहया च गत्या उपपद्यमानस्य परभवप्रथमसमये तस्मिन्नेव परभवशरीरं संघातः, ते एते द्वे अपि क्रिये सर्वशाट-सर्वसंघातात्मिके एकस्मिन् परमसूक्ष्मे युगपद् विरुध्येते, परस्परविलक्षणत्वात् , स्थान-गमनवत् ॥४०४७॥ जम्हा विगच्छमाणं विगतं उप्पज्जमाणमुप्पण्णं । तो परमवादिसमए मोक्खाऽऽदाणाण ण विरोधो ॥४०४८॥ जम्हा विगच्छमाणं इत्यादि । विगच्छद् विगतम् , उत्पधमाह(न)मुत्पन्नमिति ऋजुसूत्रनयदर्शना निश्चयतः, तस्मात् परमवस्यादिसमये इहभवस्यादिशरीर(रे) मुच्यमानं मुक्कम्, परभवशरीरं च गृह्यमान(ण) गृहीतम् , संघात्यमानं संघातितम् । तस्माद् भिन्नशरीरविषययोर्मोक्षादानयोरेककाले विरोधाभाव(वः), भिन्नयोस्तुलान्तयो मनोन्नमनवत् ॥४०४८॥ चुतिसमए णेह भवो इहदेहविमोक्खतो जधाऽतीते । जति ण परभवो वि तहिं तो सो को होतु संसारी ॥४०४९॥ चुतिसमए इत्यादि । च्युतिसमये मरणसमये इहभवो नास्ति, इहभवशरीरमुक्तत्वात् , 'अतीतभववित् ] । यदि 'पुनस्त(स्त्व)न्मत्या तत्र परभवोऽपि न भवेत् ततः उभयपरिगत्या(रित्यागा)दन्तरालवर्ती कोऽसौ भवेत् ! किमिहभवसंसारी ! 'किं १मूले 'जधाऽतोते' इति वचनाद् 'अतीतभववत्' इति समुचितम् । २ "भवन्मत्या" को. मु. ६० पृ. ९२६ गा०४०६६ । ३ इहभव-परभवयोः उभयोः त्यागात् इति आशयः। तुलनीयम् को० मु. वृ० पृ. ९२६ गा० ४०६६ । तथा हे. मु. व. पृ० १२६६-गा. ३३२३ । १ किमिहभवसंसारी ?. आहोश्वित् परभवसंसारी! इति नियंपदेश्योऽसौ"-को. मु. ७० पृ० ९२६ गा. १०६६ । तथा हे. मु. ७० पृ. १२६६ गा• ३३२३ ।

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346