________________
नि० ७२४] सामायिक करणद्वारम् ।
७९९ भण्णति भवचरिमम्मि वि इत्यादि । उच्यते, भवचरिमे स्वायुष्कपर्यन्तसमये शरीरसंघात-परिशाटावेवोभयम् नैकः परिशाट एवं, क तर्हि परिशाटः ! उच्यते, 'परभवपढमें' इहभवाद्वर्त्तमानादेष्यः परभवः, तस्य प्रथमसमये परभवायुष्कस्याये समये परभवशरीरसर्वसंघातश्च इहमवशरीरसर्वशाटश्चेति एक एवासौ समय इति । स च संघातनासमयोऽपनीत एव, तस्मात् परभवायुष्कमिति शाटनसमयस्यान्यस्याभावात् द्वितीयो नापनीयते । तस्मान्न द्विसमयोनं पल्योपमत्रयमिति युक्तिसिद्ध आगमः ॥४०४६॥
एवमप्यन्यो दोषस्तत्प्रकाशनायाहजति परपढमे साडो णिविम्गहतो य तम्मि संघातो । णणु सव्वसाड-संघादणाओ समए विरुद्धाओ ॥४०४७॥
जति परपढमे साडो इत्यादि । यदि एण्यतः परभवस्य प्रथमसमये इहभवसर्वशाटः, निविंग्रहया च गत्या उपपद्यमानस्य परभवप्रथमसमये तस्मिन्नेव परभवशरीरं संघातः, ते एते द्वे अपि क्रिये सर्वशाट-सर्वसंघातात्मिके एकस्मिन् परमसूक्ष्मे युगपद् विरुध्येते, परस्परविलक्षणत्वात् , स्थान-गमनवत् ॥४०४७॥
जम्हा विगच्छमाणं विगतं उप्पज्जमाणमुप्पण्णं । तो परमवादिसमए मोक्खाऽऽदाणाण ण विरोधो ॥४०४८॥
जम्हा विगच्छमाणं इत्यादि । विगच्छद् विगतम् , उत्पधमाह(न)मुत्पन्नमिति ऋजुसूत्रनयदर्शना निश्चयतः, तस्मात् परमवस्यादिसमये इहभवस्यादिशरीर(रे) मुच्यमानं मुक्कम्, परभवशरीरं च गृह्यमान(ण) गृहीतम् , संघात्यमानं संघातितम् । तस्माद् भिन्नशरीरविषययोर्मोक्षादानयोरेककाले विरोधाभाव(वः), भिन्नयोस्तुलान्तयो मनोन्नमनवत् ॥४०४८॥
चुतिसमए णेह भवो इहदेहविमोक्खतो जधाऽतीते । जति ण परभवो वि तहिं तो सो को होतु संसारी ॥४०४९॥
चुतिसमए इत्यादि । च्युतिसमये मरणसमये इहभवो नास्ति, इहभवशरीरमुक्तत्वात् , 'अतीतभववित् ] । यदि 'पुनस्त(स्त्व)न्मत्या तत्र परभवोऽपि न भवेत् ततः उभयपरिगत्या(रित्यागा)दन्तरालवर्ती कोऽसौ भवेत् ! किमिहभवसंसारी ! 'किं
१मूले 'जधाऽतोते' इति वचनाद् 'अतीतभववत्' इति समुचितम् । २ "भवन्मत्या" को. मु. ६० पृ. ९२६ गा०४०६६ । ३ इहभव-परभवयोः उभयोः त्यागात् इति आशयः। तुलनीयम् को० मु. वृ० पृ. ९२६ गा० ४०६६ । तथा हे. मु. व. पृ० १२६६-गा. ३३२३ । १ किमिहभवसंसारी ?. आहोश्वित् परभवसंसारी! इति नियंपदेश्योऽसौ"-को. मु. ७० पृ० ९२६ गा. १०६६ । तथा हे. मु. ७० पृ. १२६६ गा• ३३२३ ।