Book Title: Visesavasyakabhasya Part 3
Author(s): Dalsukh Malvania, Bechardas Doshi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 241
________________ नि० ७२६ ] कर्तृ-कर्म-करणानां भेदाभेदविचारः । विशेषणप्राप्तमेकत्वात् तदेकस्वरूपवत् । अनिष्टं चैतत् प्रतिविशिष्टलक्षणलक्षितत्वाद् क्रर्मादीनां बुद्धिवत् । कारकसं करावलक्षणप्रणयनासंभव इत्यभ्युपेता बाधादिदोषाः । अथैवं नेष्यते, अतस्तदेकता कल्पनामात्रमेव, न पारमार्थिकता ॥ ४१५६॥ अत्र सिद्धान्तवचनम् - आता हु काओ मे सामाइयकम्मकरणमाता य । तम्हा आता सामाइयं च परिणामतो एक्कं ॥ ४१५७॥ आता हु काओ मे इत्यादि । यत् त्वया पृष्टम् - किं कारओ य करणं च होति अण्णं अणण्णं ते ? [गा० ४१५१] । अत्राचार्यश्वोदकेन युष्मच्छब्दप्रयोगात् प्रत्यक्ष इव पर्यनुयुक्तस्तवेति । ततस्तदनुगुणमस्मच्छन्दमात्मनि नियम्य सिद्धान्ते आत्मा कारकः सामायिकस्य कर्मणः कर्त्ता, सामायिकं च कर्मभूतम् आत्मैव, करणमपि योगात्मकमास्मैव, न ततो व्यतिरिक्तमन्यपरिणामजातम् । तस्मादस्मसिद्धान्ते आत्मा सः सामायिकं च(क)रणं च योगास्त्रितयमपि आत्मपरिणामत्वादेकम् । ४१५७॥ CRA तदुपपत्तिमाचष्टे जं णाणादिसभावं सामइयं जोगमाह करणं च । उभयं च सपरिणामो परिणामाणण्णता जं च ॥४१५८॥ 9 जं णाणादिसावं इत्यादि । ज्ञानादीनि आदिग्रहणात् प्रसिद्धानि ज्ञान-दर्शनचारित्राणि, तत्स्वभावं चतुर्विधमपि सामायिकम् करणं च योगात्मकम् उभयं चैतत् सामायिक योगाख्यं स्वस्यात्मनः परिणामश्चन्द्रज्योत्स्नावत् । परिणामश्च परिणामिनीनन्य इति सिद्धान्ते प्रतीतमेतत् ॥ ४१५८ ॥ " १४१५१ गाथायाः भावार्थसूचकं वचनम् । एतन्निगमनाय गाथा - तेणाता सामइयं [ २७३ - द्वि० ] करणं च 'च' सद्दतो ण भिण्णाई । णु भणितमणण्णत्ते तण्णासे जीवणासो त्ति ॥४१५९ ॥ तेनाता सामइयमित्यादि । 'तेन' इति हेतौ तृतीया । येनायमेवंविध आत आगमस्तेन तस्मादात्मा सामायिक कर्म, 'च' शब्दात् करणं च योगा अध्यात्मैव, 'च' शब्दसंगृहीत'वात् योगानाम् । अर्थत एतान्यभिन्नानीति ब्रुवता शब्दतो भिन्नानि दृष्टान्येव, ततश्च कथश्चिद्भेदाभेदौ ।।४१५९ ॥ एवं तर्ह्यनन्यत्वेऽभ्युपगते ननूकं तन्नाशे जीवनाश इति कथं दोषाभावः ? उच्यते

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346