________________
नि० ७२६ ]
कर्तृ-कर्म-करणानां भेदाभेदविचारः ।
विशेषणप्राप्तमेकत्वात् तदेकस्वरूपवत् । अनिष्टं चैतत् प्रतिविशिष्टलक्षणलक्षितत्वाद् क्रर्मादीनां बुद्धिवत् । कारकसं करावलक्षणप्रणयनासंभव इत्यभ्युपेता बाधादिदोषाः । अथैवं नेष्यते, अतस्तदेकता कल्पनामात्रमेव, न पारमार्थिकता ॥ ४१५६॥
अत्र सिद्धान्तवचनम् -
आता हु काओ मे सामाइयकम्मकरणमाता य । तम्हा आता सामाइयं च परिणामतो एक्कं ॥ ४१५७॥
आता हु काओ मे इत्यादि । यत् त्वया पृष्टम् - किं कारओ य करणं च होति अण्णं अणण्णं ते ? [गा० ४१५१] । अत्राचार्यश्वोदकेन युष्मच्छब्दप्रयोगात् प्रत्यक्ष इव पर्यनुयुक्तस्तवेति । ततस्तदनुगुणमस्मच्छन्दमात्मनि नियम्य सिद्धान्ते आत्मा कारकः सामायिकस्य कर्मणः कर्त्ता, सामायिकं च कर्मभूतम् आत्मैव, करणमपि योगात्मकमास्मैव, न ततो व्यतिरिक्तमन्यपरिणामजातम् । तस्मादस्मसिद्धान्ते आत्मा सः सामायिकं च(क)रणं च योगास्त्रितयमपि आत्मपरिणामत्वादेकम् । ४१५७॥
CRA
तदुपपत्तिमाचष्टे
जं णाणादिसभावं सामइयं जोगमाह करणं च ।
उभयं च सपरिणामो परिणामाणण्णता जं च ॥४१५८॥
9
जं णाणादिसावं इत्यादि । ज्ञानादीनि आदिग्रहणात् प्रसिद्धानि ज्ञान-दर्शनचारित्राणि, तत्स्वभावं चतुर्विधमपि सामायिकम् करणं च योगात्मकम् उभयं चैतत् सामायिक योगाख्यं स्वस्यात्मनः परिणामश्चन्द्रज्योत्स्नावत् । परिणामश्च परिणामिनीनन्य इति सिद्धान्ते प्रतीतमेतत् ॥ ४१५८ ॥
"
१४१५१ गाथायाः भावार्थसूचकं वचनम् ।
एतन्निगमनाय गाथा -
तेणाता सामइयं [ २७३ - द्वि० ] करणं च 'च' सद्दतो ण भिण्णाई । णु भणितमणण्णत्ते तण्णासे जीवणासो त्ति ॥४१५९ ॥
तेनाता सामइयमित्यादि । 'तेन' इति हेतौ तृतीया । येनायमेवंविध आत आगमस्तेन तस्मादात्मा सामायिक कर्म, 'च' शब्दात् करणं च योगा अध्यात्मैव, 'च' शब्दसंगृहीत'वात् योगानाम् । अर्थत एतान्यभिन्नानीति ब्रुवता शब्दतो भिन्नानि दृष्टान्येव, ततश्च कथश्चिद्भेदाभेदौ ।।४१५९ ॥
एवं तर्ह्यनन्यत्वेऽभ्युपगते ननूकं तन्नाशे जीवनाश इति कथं दोषाभावः ? उच्यते