________________
८२४ विशेषावश्यकभाष्ये
[नि० ७२६अधव मती भिण्णेण वि धणेण सधणोऽधणो त्ति ववदेसो । सधणो य धणाभागी जध तथ सामाइयस्सामी ॥४१५३।।
__ अधव मती भिण्णेण वि इत्यादि । भिन्नेनापि हि धनेन सधनो निर्धन इति व्यपदेशो दृष्टः सधनश्च धनभागी, एवं भिन्नेनापि सामायिकेन गुणेन तद्वानात्मा सामायिकस्वामी सम्यग्दृष्ट्यादिर्भविष्यति । एवं पूर्वप्रमाणमनैकान्तिकमिति ख्यापित भवति ॥४१५३॥
यत्र हि यो व्यपदेशः सधनादिर्दृष्टः तत्रापि तद्धर्मानात्मकत्वं विपक्षे दृष्टमिति कृत्वा एतदनैकान्तिक यावर्तनार्थ सविशेषणहेतुत्वं ख्याप्यते -
तं ण जतो जीवगुणो सामइयं तेण विफलता तस्स । अण्णत्तणतो जुत्ता परसामइयस्स वाऽफलता ॥४१५४॥
तं ण जतो इत्यादि । 'तद्' इत्यनैकान्तिकश्वं परामृशति, तन्न, यस्माज्जीवस्य गुण इति सामायिकमभ्युपगम्यते, तस्मादन्यत्वं प्रतिज्ञायते, तेन जीवगुणत्वे सतीति विशेषणं कृत्वा । तदनात्मकत्वादिति हेतुः, स चाकाशे सपक्षेऽस्ति, विपक्षे च साधनादौ न विद्यते । तस्मादनैकान्तिकाभाव इति शुद्धमेव प्रमाणम् । ततश्च तत् सामायिक तस्यात्मनो विफलम् , ततोऽन्यत्वात् , परम(पर)सामायिकवत् ॥४१५४॥
जति भिण्णं तब्भावे कि तो तो तस्स भावरहितो ति । अण्णाणि च्चिय णिच्चं. अन्धो व्व समं पि दीवेणं ॥४१५५॥
जति भिण्णं इत्यादि । यदि भिन्नमात्र त्म)सामायिकं श्रुतादिचतुरात्मकम् , ततस्तद्भ(भा)वेऽपि बाह्यधनवत् तत्स्वभावरहित इति अज्ञान एव सर्वदा प्राप्तः, ज्ञान प्रकाशादत्यन्तभिन्नत्वात् , गृहीतदीपान्धवत् चक्षुः प्रतीत्य प्रकाशकार्याकरणात् रूपविज्ञानरहितः । इष्यते च 'आत्मा ज्ञानी' इत्यभ्युपगमविरोधोऽत्यन्ते(न्त)भिन्नत्वपक्षे ॥४१५५॥
एत(द)दोषपरिहारा[य] योकत्वमभ्युपगम्यते तथापि दोषा इति दर्शयतिएगत्ते तण्णासे णासो जीवस्स संभवे भवणं । कारकसंकरदोसो त देगताकप्पणा वा वि ॥४१५६॥ ___ एगते तण्णासे इत्यादि । एकत्वे गुण-गुणिनोः ज्ञानस्य विनाशे तदेकत्वादात्मनोऽपि विनाशः प्राप्नोति, ततश्च अनित्य आत्मा पूर्वरूपप्रच्युतेर्विक्रियमाणत्वात् , तत्सम्भवे वा आत्मनोऽप्युत्पत्ति[]नादेकत्वात् ] ज्ञानस्वरूपवत् । किंच, यत् कर्म तत् करणं कर्ता च, यत् करणं तदपि कर्म कर्ता च, यः कर्ता तत् कर्म करणं वा[च]
१णो त्ति होई वव० हे त । १ तुलनीयम् कोटया० वृ. मु. पृ. , १११ गाथाया विवरणम् । ३ °मं पईवे को हेत।