________________
नि० ७२६] कर्तृ-कर्म-करणानां मेदामेदविचारः। ८२३
पविभागमपेच्छंतो पुच्छति को कारओ करेन्तो य। किं कम्मं जं कीरति तेण 'तु' सद्देण करणं च ॥४१५०॥
पविभागमपेच्छंतो इत्यादि । इह तु सामायिके कर्मणि ज्ञान-दर्शन-चारित्रात्मके कर्तुरात्मनः करणेभ्यश्चोद्देश-[वाचना]-समुद्देशानुज्ञाप्रकारेभ्यः आत्मरूपत्वादनन्यत्वदर्शने एकमेते(वे)दं द्रव्य-गुण-पर्यायस्वभावमात्रं द्रव्यम् । कोऽत्र कारकः कुलालस्थानीयः ! आहाचार्यः प्रतिवचना(न)म्-करेन्तो [४१४६] । नन्वयमात्मा कुर्वन् एवं तावद् द्रव्यं निर्धारितम् । अथैवंसति तस्माद्भेदेन घटस्थानीयं किं कर्म ! आह आचार्यः यत्तु क्रियते तेन, क्रियते च सामायिकं गुणः । जंतु कीरते तेणं [४१४६] । अस्यां गाथायां 'तु'शब्दः करणप्रश्नसंग्रहार्थः। यथा कर्म पृष्टम् एवं किं करणम् ! आचार्य आह-उद्देशादि चतुर्विधं करणम् ॥४१५०॥
एवमाचार्येणोक्ते चोदकः आचार्यदेशीयो वा आह--किमेतत् त्रितयं मया न ज्ञातम् ? केनेति प्रश्नादेवैतत् सुज्ञातम् किन्तु यो ममाभिप्रायः स न ज्ञातस्तं प्रकाशयन्नाह-- कि कारओ य क[२७३-०]रणं च होति कम्मं च ते 'च' सदातो। अण्णमणण्णं भण्णति किं चाह ण सन्चधा जुत्तं ॥४१५१॥
कि कारओय करणं च। किं यत् कारकः आत्मा, यद् उद्देशादि करणम्, यच्च सामायिक कर्म, एतत्-'च'शब्दसंगृहीतम्-त्रितयं किं परस्परतः कुलाल-घटदण्डादिवदन्यत् ? आहोस्विद् 'आत्मानमात्मना आत्मा पश्यति' इति परस्परतो नान्यत् ? इति एवमर्थ मया चोदितमपि चोदितम्-कः कारकः । इति । एवमभिप्राये चोदकेन प्रकाशिते सति आचार्य आह-किंचातः ? चोदकं प्रत्याह-सर्वथा न युक्तम् ॥४१५१॥
कथमिति ! तत् प्रदर्शयतिअण्णत्ते समभावाभावातो तप्पयोयणाभावो । पावति मिच्छरस व से सम्मामिच्छाऽविसेसोऽयं ॥४१५२।।
अण्णत्ते इत्यादि । आत्म-सामायिकादीनां कर्तृ-कर्म-करणानामात्मनोऽन्यत्वे समभावः सामायिकमिति ? तस्मात् समभावादात्म(त्मा) भिन्न इति समत्वानापत्तेरात्मनः तत्प्रयोजनाभावः, समभावादन्यत्वात् , मिथ्यादृष्टेरिव । अपि च, सम्यगदृष्टिर्मिथ्यादृष्टिश्चात्मा विशेष्य नोच्यते, उभयधर्मानात्मकत्वात् , तद्वयपदेशाभावादाकाशवत् ॥४१५२॥