________________
८२२
विपरवश्यकभाष्ये [नि० ७२६भणिते खयोवसमतो स एव लब्भति कधं उवग्याते । सो चेव खयोवसमो इध केसि होज्ज कम्माणं ॥४१४५॥
भणिते खयोवसमतो इत्यादि । उपक्रमे -क्षयोपशमात् सामायिकं लभ्यते इत्युक्तम् , उपोद्घाते स एव क्षयोपशमस्तत्कारणभूतः कथं लभ्यत इति प्रश्नः । इह पुनर्विशेषिततरः प्रश्नः केषां पुनः कर्मणां स क्षयोपशम इति प्रत्यासन्नतरकारणप्रश्न इत्यपुनरुक्तम् ॥४१४५॥ . अथेदानी कृतादिद्वारगाथायां केन कृतमिति द्वारे तृतीया कर्तृ-करणयोः कारकयोः, तत्र सन्देहो मा भूदिति 'कर्तरि तृतीयेयम्' इति ज्ञापनार्थ गाथा
को कारओ करेन्तो किं कम्मं जं तु कीरते तेणं । कि कारओ अ करणं च होति अण्णं अणणं ते ॥४१४६॥ को कारओ त्ति भणिते होति करेन्तो त्ति भण्णते गुरुणा । किं कम्म ति य भणिते भण्णति जे कीरते तेणं ॥४१४७॥
को कारओ इत्यादि । कर्तृ-कर्मविवेकार्थ प्रश्नः । कः कारकः ! आह-कुर्वन् कारकः स्वतन्त्र इति कृत्वा । अथ तस्य कर्तुः किं कर्म ? यत् तेन क्रियते का ॥४१४६-४७॥
अत्र आचार्यदेशीयः कश्चिद् उभावपि चोदकाचायौँ पर्यनुयुङ्क्ते-किमिदमस्थाने चोदितमपि पुनश्चोधतेकेण कतं ति य कत्ता णणु भणितो तत्थ का पुणो पुच्छा । तविवरणं चिय इमं केणं ति व होज मा करणं ॥४१४८॥
केण कतं ति य कत्ता इत्यादि । केन कृतमिति यत् प्रान(क्) चोदितं तत्र करणतृतीयाशङ्का मा भूदित्येवमर्थ तस्यैव विवरणम्-कर्तरि तृतीया-कारक(ः) कुर्वन्नुध्यते इति ॥४१४८॥
अथवान्यथैव प्रश्नस्योत्थानम्-किमनेन स्थूलेन चोदितेन ? किन्तु अन्य एव अत्राभिप्रायस्तत्प्रदर्शनार्थ गाथा
अधवा कताकतादिसु कत्तारं कम्मकरणभावं च । सामाइयस्स सोतुं कुलाल-घड-डंडयाणं वा ॥४१४९॥
अधवा कताकतादिसु । कृताकृतादिद्वारगाथायां केन कृतमिति कर्ता कर्म-करणे वच) तु(त्रि)तयमुपप्लवते, सर्वत्र घटादौ कार्ये प्रविभागेन कुलालः कर्ता, घटः कर्म-कार्यम् , दण्डादीनि करणानि त्रीण्यपि वस्तूनि भिन्नानि ॥४१४९॥
१ विशेषावश्यकभाष्यमूलगाथामुद्रणे इयं गाथा तत्संपादकेन नियुक्तिगता मता परन्तु अस्या गाथाया वृत्तौ वृत्तिकारो मलधारो सूरिन किमपि सूचितवान् ।