________________
७७२
विशेषावश्यकभाष्ये [नि० ७१८अथ चायं विस्तरनमस्कार इति उच्यते, तथाऽन्येवंवक्तव्य इति दर्शयति
उसमातीणमणंतरसिद्धादीणं जिणातियाणं च ।
वित्थरतो पंचविधो ण वि संखेवो ण वित्थारो ॥३९३०॥ उसभातीण० इत्यादि। ऋषभाऽजितसम्भवाभिनन्दनमुमतिपद्मप्रभमुपार्चचन्द्रमभइत्यादिमहावीरवर्धमानस्वामिपर्यन्तेभ्यश्चतुर्विंशतयेऽहंद्यः तथा सिद्धेभ्योऽपि विस्तरेण अनन्तरसिद्धेभ्यः, परम्परसिद्धेभ्यः द्वितीयसमय-तृतीयसमयादिसंख्येयाऽ. नन्तसमयसिद्धेभ्यः, तथा तीर्थ-लिङ्ग-चारित्र-प्रत्येकबुद्धादिविशेषणविशिष्टेभ्यः तीर्थकरसिद्धेभ्यः, अतीर्थकरसिद्धेभ्यः, अतीर्थसिद्धेभ्यः, इत्येवमादिरनन्तशो विस्तरः । तस्मादयं पञ्चविधः नमस्कारः अयुज्यमानक एव, संक्षेप-विस्तरानात्मकत्वात् , बन्ध्यापुत्रनमस्करणबत् ।
अत्र प्रतिविधीयते-न, संक्षेप-विस्तरानात्मकत्वात्' इत्यसिद्धः । कथम् ? यस्मात् संक्षेपात्मकोऽयम् । ननु संक्षेपः सिद्ध-साधुमात्रकोऽभिहितः, कारणवशात् कृतार्थाsकृतार्थपरिग्रहात् साधुमात्रनिर्देशाद्वा । कारणनिरपेक्षतायां कथमयं संक्षेपः । आचार्य आह-त्वया तावत् कारणवशात् साधुमात्रसंक्षेप मुक्वा सिद्ध-साधुसंक्षेपोऽभ्युपगतः । एवमेवास्माकमपि पंचविह(पञ्चविध)नमस्कारः संक्षेपात्मको भविष्यति, कारणवशात् तथाभ्युपगम्यमानत्वात्, सिद्ध-साधुसंक्षेपवत् । तच्च प्रतिविशिष्टभक्त्युत्पादनादनन्तगुणविधानात् सकलनिर्जरानिमित्तं मार्गोपदेशकादिप्ररूपणायाम् (गा०३९३५) अभिहितं पञ्चविधकारणम् । इति सिद्धः पञ्चविधनमस्कारसंक्षेप इति । तस्मात् अयुज्यमानत्वं साधनम् अप्रमाणम् असिद्धहेतुकत्वात्, चाक्षुषत्वसाध्यशब्दानित्यत्ववत् । ___यच्च साधुग्रहणेनार्हदादयो गृह्यन्ते तत् सत्यम्, यतोऽहंदादयः प्रत्येक सर्बसाधवः, अहंदादयः साधव एवेत्यवधारणात् । साधवस्तु न सर्वेऽहंदादयः, केचिदहन्तो भवस्थकेवलिनः, केचित् सिद्धाः परिनिर्वृतत्वात्, केचिदाचार्याः, केचिदुपाध्यायाः, केचिदेतच्चतुष्टयस्थानमप्राप्ताः शिष्यमाणत्वात् साधव एव, नार्हदादिचतुष्कमिति एकपदव्यभिचारान्न तुल्याभिधानता, साधुमात्रेण पूजानवाप्तेः ।
प्रमाणमपि-साधुमात्रनमस्कार(रः) विशिष्टार्हदादिगुणनमस्कृतिफलप्रापणसमर्थों न भवति, तत्सामान्याभिधाननमस्कारत्वात् , मनुष्यमात्रनमस्कारवत् जीवमात्रनमस्कारवद्वा ॥३९३०॥
अत एतदर्थानुवाद्ययं गाथाप्रपश्चःजति वि जतिग्गहणातो होति कतं गहणमरुहतादीणं । वध वि ण तग्गुणपूआ जतिगुणसामण्णपूयातो ॥३९३१॥