Book Title: Uttaradhyayani Part_3
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
बृहद्वृत्तिः
जीवाजीव विभक्तिः
॥६७९॥
-CROMCHANDRAKASO2OCk
मन्दसत्त्वतया, यतः सत्त्वमिह व्रततपोधारणविषयमेषितव्यम् , अन्यस्यानुपयोगित्वात् , तच्च ताखप्यनल्पं सुदुर्धरशीलवतीपु संभवति, उक्तं च-"ब्राह्मीसुन्दराजीमतीचन्दनागणधराद्याः । अपि देवमनुजमहिता विख्याताः शीलसत्त्वाभ्याम् ॥१॥" अतोन चारित्रासम्भवेन विशिष्टरत्नत्रयस्याभावः, इत्थं च चारित्रसम्भवे सिद्ध एव ज्ञानदर्शनसम्भवः, तत्पूर्वकत्वात्तस्य, उक्तं हि-"पूर्वद्वयलाभः पुनरुत्तरलाभे भवति सिद्धः" इति, तदभावपक्षोऽपि नाश्रयणीयः, त्रयाभावपक्षस्त्वेवं त्रितयसिद्धावनवसर एव, दृश्यन्ते च सम्प्रत्यपि त्रितयमभ्यस्यन्त्यस्ताः, उक्तं च"जानीते जिनवचनं श्रद्धत्ते चरति चार्यिकाऽशवलम्" इति, अथ प्रकर्षपर्यन्तप्राप्तस्याभावः, एवं तर्हि तस्याप्यभावः किं कारणाभावेन विरोधिसम्भवेन वा?, न तावत्कारणाभावेन, अविशिष्टरत्नत्रयाभ्यासस्यैव तन्निवन्धत्वेनागमेऽभिधानात् , तस्य च स्त्रीष्वनन्तरमेव समर्थितत्वात् , नापि विरोधिसम्भवेन, तस्यास्मादृशामत्यन्तपरोक्षत्वेन केनचिद्विरोधानिर्णयादिति न रत्नत्रयाभावेन स्त्रीणां पुरुषेभ्योऽपकृष्यमाणत्वम् , अथ विशिष्टसामर्थ्यासत्त्वेन, इदम-४ पि कथमिति वाच्यं ?, किं तावद् असप्तमनरकपृथ्वीगमनत्वेनाहोखिद्वादादिलब्धिरहितत्वेनाल्पश्रुतत्वेनानुपस्थाप्यतापाराश्चितकशून्यत्वेन वा?, तत्र न तावदसप्तमनरकपृथ्वीगमनत्वेन, यतोऽत्र किं सप्तमनरकपृथ्वीगमनाभावो यत्रैव जन्मनि तासां मुक्तिगामित्वं तत्रैवोच्येत सामान्येन वा?, तत्र यद्याद्यो विकल्पस्तदा पुरुषाणामपि यत्र जन्मनि मुक्तिगामिता न तत्रैव सप्तमपृथ्वीगमनमिति तेषामपि मुक्त्यभावप्रसङ्गः, अथ सामान्येन, अत्र चायमाशयो-यथा
Jain Education
For Private & Personal Use Only
T
ww.jainelibrary.org

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408