Book Title: Uttaradhyayani Part_3
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 391
________________ SAC वारसेत्यादि सूत्रपञ्चकम् । द्वादशैव न तु न्यूनान्यधिकानि वा 'तुः' पूरणे 'वर्षाणि' संवत्सरान् संलेखन-द्रव्यतः शरीरस्य भावतः कषायाणां कृशताऽऽपादनं संलेखा, संलेखनेति योऽर्थः, 'उक्कोसिय'त्ति उत्कृष्टा सर्वगुर्वी भवेत् , 'संवच्छरति संवत्सरं-वर्ष मध्यमैव मध्यमिका, पण्मासान् 'च' पुनरर्थे भिन्नक्रमस्ततो जघन्यैव जपन्थिका पुनः, पठन्ति च-'उक्कोसिया' इत्यत्र 'उक्कोसतो'त्ति, अन्यत्र तु 'मज्झिमउत्ति जहण्णतो'त्ति । इत्थं संलेखनायास्त्रैविध्ये उत्कृष्टायाः क्रमयोगमाह-'प्रथम' आद्ये 'वर्षचतुष्के' संवत्सरचतुष्टये वर्तनं वृत्तिनिर्वहणमित्यर्थः प्रस्तावात्क्षीरादिविकृतिस्तस्या निर्ग्रहणम्-आचामाम्लस्य निर्विकृतिकस्य वा तपसः करणेन परित्यागो वृत्तिनियूहणमनु (णं तत्) कुर्यात् , पठ्यते च-'विगईनिज्जूहणं करे'त्ति स्पष्टम् , इदं च विचित्रतपसः पारणके, यदाह निशीथचूर्णिकृत्-'अन्ने र चत्तारि वरिसे विचित्तं तवं काउं आयंबिलेण पारेइ निधिएण वा पारेइ"त्ति, केवलमनेन नियुक्तिकृता च द्वितीये वर्षचतुष्टये एतदुक्तम् , अत्र च सूत्रे प्रथम दृश्यत इत्युभयथापि करणे दोषाभावमनुमिमीमहे, तयोरस्य च प्रमाणभूतत्वात्, द्वितीय वर्षचतुष्के 'विचित्रं तु' इति विचित्रमेव चतुर्थषष्ठाष्टमादिरूपं तपश्चरेत् , अत्र च पारणके सम्प्रदायः-"उग्गमविसुद्धं सच कप्पणिजं पारेति"त्ति । एकेन-चतुर्थलक्षणेन तपसाऽन्तरं–व्यवधानं यस्मिंस्तदेकान्तरम् 'आयामम्' आचाम्लं 'कटु'त्ति कृत्वा संवत्सरौ द्वौ, 'ततः' तदनन्तरं 'संवत्सरार्द्ध' मासपट्वं 'तुः' पूरणे 'न'| १ अन्यानि चत्वारि वर्षाणि विचित्रं तपः कृत्वाऽऽचाम्लेन निर्विकृतिकेन वा पारयति २ उद्गमविशुद्धं सर्व कल्पनीयं पारयति RIMARG For Private Personal Use Only w.jainelibrary.org Jain EducationLINK

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408