Book Title: Uttaradhyayani Part_3
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
H
AMROSSOCIAS
अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजदंमि सए काए, देवाणं हुज अंतरं ॥ २४४॥ एएसिं वन्नओ चेव, गंधओ रसफासओ। संठाणादेसओ वावि, विहाणाई सहस्ससो॥२४५ ॥ अन्तरविधानाभिधायि च सूत्रद्वयं पूर्ववद्याख्येयम् ॥ इत्थं जीवानजीवांश्च सविस्तरमुपदर्य निगमयितुमाह
संसारत्था य सिडा य, इइ जीवा वियाहिया । रूविणो चेवऽरूवी य, अजीवा दुविहावि य ॥२४६॥ संसारस्थाश्च सिद्धाश्च 'इति' इत्येवंप्रकारा जीवाः 'व्याख्याताः' विशेषेण-सकलभेदाभिव्याप्त्या प्रकथिताः, रूपिणश्चैव 'रूवी य'त्ति अकारप्रश्लेषादरूपिणश्चाजीवा द्विविधा अपि व्याख्याता इति योग इति सूत्रार्थः ॥ यदुक्तं जीवाजीवविभक्तिं शृणुतैकमनस' इति तत्र जीवाजीवविभक्तिमभिधाय 'शृणुतैकमनस' इति वचनात् क्वचि(कश्चित् श्रवणश्रद्धानमात्रेणैव कृतार्थतां मन्येतातस्तदाशङ्कापनोदार्थमाह
इह जीवमजीवे य, सुच्चा सद्दहिऊण य । सबनयाण अणुमए, रमिजा संजमे मुणी ॥२४७॥ _ 'इति' इत्येवंप्रकारान् 'जीवमजीवेय'त्ति जीवाजीवान् ‘एतान्' अनन्तरोक्तान् 'श्रुत्वा' अवधार्य 'श्रद्धाय च' तथेति प्रतिपद्य सर्वे च ते नयाश्च सर्वनया-ज्ञानक्रियानयान्तर्गता नैगमादयस्तेषामनुमतः-अभिप्रेतस्तस्मिन् , कोऽर्थः - ज्ञानसहितसम्यक्चारित्ररूपे 'रमेत' रतिं कुर्यात् , क्व?-सम्यग्यमनं-पृथिव्यादिजीवोपमर्दतस्तृणपञ्चकाद्यजीवोपादानादेश्वोपरमणं संयमस्तस्मिन् 'मुनिः' उक्तरूप इति सूत्रार्थः॥ संयमरतिकरणानन्तरं यद्विधेयं तदाह
उत्तरा.११८.
onal
For Private Personal use only
Allww.jainelibrary.org

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408