Book Title: Uttaradhyayani Part_3
Author(s): Bhadrabahuswami, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 373
________________ कायठिई, जहन्नुकोसिया भवे ॥१६६ ॥ अणंतकालमुक्कोस, अंतोमुहत्तं जहन्नयं । विजमि सए काए, नेरइयाणं तु अंतरं ॥ १६७ ॥ एएसिं वन्नओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो॥१६८॥ नेरइएत्यादि चतुर्दश सूत्राणि । नैरयिकाः 'सप्तविधाः' सप्तप्रकाराः, किमिति ?, यतः पृथ्वीपु सप्तसु 'भवे'त्ति भवेयुः, ततस्तद्भेदात्तेषां सप्तविधत्वमिति भावः, काः पुनस्ताः सप्त? इत्याह-'रयणाभ'त्ति रत्नानां-वैडूर्यादीनामाभानमाभाखरूपतः प्रतिभासनमस्यामिति रत्नाभा, इत्थं चैतत् , तत्र रत्नकाण्डस्य भवनपतिभवनानां च विविधरत्नवतां सम्भवात्, एवं सर्वत्र, नवरं शर्करा-श्लक्ष्णपाषाणशकलरूपा तदाभा, 'धूमाभे'ति यद्यपि तत्र धूमासम्भवस्तथाऽपि । तदाकारपरिणतानां पुद्गलाना सम्भवात् , तमोरूपत्वाच तमः, प्रकृष्टतरतमस्त्वाच्च तमस्तमः, 'इति' इत्यमुना पृथिवीसप्तविधत्वलक्षणेन प्रकारेण नैरयिका एते सप्तधा प्रकीर्तिताः । 'लोगस्से'त्यादिसूत्रद्वयं क्षेत्रकालाभिधायि प्राग्वत् । सादिसपर्यवसितत्वं द्विविधस्थित्यभिधानद्वारतो भावयितुमाह-सागरोपममेकं तूत्कृष्टेन व्याख्याता 'प्रथमायां' प्रक्रमान्नरकपृथिव्यां जघन्येन दश वर्षसहस्राणि यस्यां सा दशवर्षसहस्रिका, प्रस्तावादायुःस्थिति रयिकाणामितीहोत्तरसूत्रेषु च द्रष्टव्यम् । त्रीण्येव 'सागरे'ति सागरोपमाणि 'तुः' पूरणे उत्कृष्टेन व्याख्याता द्वितीयायां, 'जहण्णेणं'ति उत्तरत्र तुशब्दस्य पुनःशब्दार्थस्य भिन्नक्रमत्वेनेह सम्बन्धाजघन्येन पुनरेकं सागरोपमम् । -%+24 MSECREC RockCO Jan Education For Private Personel Use Only Srjainelibrary.org

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408