SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः जीवाजीव विभक्तिः ॥६७९॥ -CROMCHANDRAKASO2OCk मन्दसत्त्वतया, यतः सत्त्वमिह व्रततपोधारणविषयमेषितव्यम् , अन्यस्यानुपयोगित्वात् , तच्च ताखप्यनल्पं सुदुर्धरशीलवतीपु संभवति, उक्तं च-"ब्राह्मीसुन्दराजीमतीचन्दनागणधराद्याः । अपि देवमनुजमहिता विख्याताः शीलसत्त्वाभ्याम् ॥१॥" अतोन चारित्रासम्भवेन विशिष्टरत्नत्रयस्याभावः, इत्थं च चारित्रसम्भवे सिद्ध एव ज्ञानदर्शनसम्भवः, तत्पूर्वकत्वात्तस्य, उक्तं हि-"पूर्वद्वयलाभः पुनरुत्तरलाभे भवति सिद्धः" इति, तदभावपक्षोऽपि नाश्रयणीयः, त्रयाभावपक्षस्त्वेवं त्रितयसिद्धावनवसर एव, दृश्यन्ते च सम्प्रत्यपि त्रितयमभ्यस्यन्त्यस्ताः, उक्तं च"जानीते जिनवचनं श्रद्धत्ते चरति चार्यिकाऽशवलम्" इति, अथ प्रकर्षपर्यन्तप्राप्तस्याभावः, एवं तर्हि तस्याप्यभावः किं कारणाभावेन विरोधिसम्भवेन वा?, न तावत्कारणाभावेन, अविशिष्टरत्नत्रयाभ्यासस्यैव तन्निवन्धत्वेनागमेऽभिधानात् , तस्य च स्त्रीष्वनन्तरमेव समर्थितत्वात् , नापि विरोधिसम्भवेन, तस्यास्मादृशामत्यन्तपरोक्षत्वेन केनचिद्विरोधानिर्णयादिति न रत्नत्रयाभावेन स्त्रीणां पुरुषेभ्योऽपकृष्यमाणत्वम् , अथ विशिष्टसामर्थ्यासत्त्वेन, इदम-४ पि कथमिति वाच्यं ?, किं तावद् असप्तमनरकपृथ्वीगमनत्वेनाहोखिद्वादादिलब्धिरहितत्वेनाल्पश्रुतत्वेनानुपस्थाप्यतापाराश्चितकशून्यत्वेन वा?, तत्र न तावदसप्तमनरकपृथ्वीगमनत्वेन, यतोऽत्र किं सप्तमनरकपृथ्वीगमनाभावो यत्रैव जन्मनि तासां मुक्तिगामित्वं तत्रैवोच्येत सामान्येन वा?, तत्र यद्याद्यो विकल्पस्तदा पुरुषाणामपि यत्र जन्मनि मुक्तिगामिता न तत्रैव सप्तमपृथ्वीगमनमिति तेषामपि मुक्त्यभावप्रसङ्गः, अथ सामान्येन, अत्र चायमाशयो-यथा Jain Education For Private & Personal Use Only T ww.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy