________________
CHOCHOROSCRECORK
"छेटिं च इत्थियाओ मच्छा मणुया य सत्तमी पुढवीं” इत्यागमवचनात्पुरुषाणामेव सप्तमनरकपृथ्वीगमनयोग्य-12 कर्मोपार्जनसामर्थ्य न स्त्रीणामित्यधोगतौ पुरुषतुल्यसामर्थ्याभावादूर्ध्वगतावपि तासां तदभावोऽनुमीयते ततस्तासां पुरुषेभ्योऽपकृष्यमाणतेति, तदप्ययुक्तं, यतो येषामधोगतौ तुल्यसामर्थ्याभावस्तेषामूर्ध्वगतावप्यनेन भाव्यमिति न . नियमोऽस्ति, तथाहि-"संमुच्छिमभुयगखगचउप्पयसप्पित्थिजलचरेहिंतो । सनरेहिंतो सत्तसु कमोववजंति नरएसु ॥१॥” इति वचनाद्भुजगचतुष्पत्सर्पखगजलचरनराणामधोगतावतुल्यं सामर्थ्यमूर्द्धगतौ तु “सन्नितिरिक्खेहिंतो सहस्सारंतिएसु देवेसु । उप्पजंति परेसुवि सब्बेसुवि माणुसेहिंतो ॥१॥” इति वचनादेषामासहसारान्तोपपातात्तुल्यमेव सामर्थ्यम् , उक्तं च-"विषमगतयोऽप्यधस्तादुपरिष्टात्तुल्यमासहस्रारम् । गच्छन्ति च तिर्यञ्चस्तदधोगत्यूनताऽहेतुः ॥३॥" अतो नासप्तमनरकपृथ्वीगमनत्वेन विशिष्टसामर्थ्यासत्त्वम् , अथ वादादिलब्धिरहितत्वेन, तदप्यचारु, यतो यदि वादादिलब्धिमत्त्वेन विशिष्टसामर्थ्य व्याप्तमुपलब्धं भवेत्ततस्तन्निवृत्तौ तस्य निवृत्तिः स्यात्, न चैवम् , अनयोाप्यव्यापकभावस्य क्वचिदनिश्चयात् , अल्पश्रुतत्वं तु मुक्त्यवायाऽनुमितविशिटसामयाषतुपादिभिरनैकान्तिकमित्यनुद्घोष्यमेव, यदप्यनुपस्थाप्यतापाराञ्चितकशून्यत्वेनेत्युच्यते, तदप्ययुक्तं,
१ षष्ठीं च स्त्रियो मत्स्या मनुजाश्च सप्तमी पृथ्वीम् । २ संमूछिमभुजपरिसर्पखचरचतुष्पदसर्पस्त्रीजलचरेभ्यः । समनुष्येभ्यः सप्तसु।। क्रमादुपपद्यन्ते नरकेषु ॥२॥ ३ संज्ञितिर्यग्भ्यः सहस्रारान्तिकेषु देवेषु । उत्पद्यन्ते परेष्वपि सर्वेष्वपि मनुष्येभ्यः ॥ ३ ॥
Join Educat
i on
For Private Personal Use Only
www.jainelibrary.org