SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ CAR-54CC उत्तराध्य. यतो न तनिषेधाद्विशिष्टसामर्थ्याभावः प्रतीयते, योग्यतापेक्षो हि चित्रः शास्त्रे विशुद्धथुपदेशः, यदुक्तम्-"संवरनि- जीवाजीव जररूपो बहुप्रकारस्तपोविधिः शास्त्रे । रोगचिकित्साविधिरिव कस्यापि कथञ्चिदुपकारी ॥१॥" यच्च पुरुषानभिबृहद्वृत्तिः | विभक्ति वन्द्यत्वं हेतुरुक्तः तदपि सामान्येन गुणाधिकपुरुषापेक्षं वा, यदि सामान्येन तदाऽसिद्धतादोपः, तीर्थकरजन॥६८०॥ न्यादयो हि शक्रादिभिरपि प्रणताः किमङ्ग शेषपुरुषैः ?; गुणाधिकपुरुषापेक्षं चेणधरा अपि तीर्थकृद्भिर्नाभिवन्धत ते इति तेषामप्यपकृष्यमाणत्वम्, अथ तीर्थशब्दस्याद्यगणधराभिधायित्वात्तीर्थप्रणामपूर्वकत्वाचाहद्देशनाया असिद्ध मेव तदनभिवन्द्यत्वं गणधराणाम् , एवं तर्हि चातुर्वर्णसङ्घस्यापि तदभिधेयत्वात्तदन्तर्भावाच्च स्त्रीणामहद्भिरपि । वन्यत्वे कथं पुरुषानभिवन्द्यत्वेन तासां तेभ्योऽपकृष्यमाणत्वम् ?, अथ स्मारणाधकर्तृत्वेन, एवं सति समानेऽपि रत्नत्रये शिष्याचार्ययोराचार्यस्यैव मुक्तिः स्यान्न शिष्यस्य, स्मारणाद्यकर्तृत्वेन तस्य ततोऽपकृष्यमाणत्वात् , न चैतदागमिक, चण्डरुद्राद्याचार्यशिष्याणामागमे निःश्रेयसश्रवणात् , अथामहर्द्धिकत्वेन स्त्रीणां पुरुषम्योऽपकृष्यमाणत्वं, तथा सति प्रष्टव्योऽसि-किमाध्यात्मिकीमृद्धिमाश्रित्य बाह्यां वा?, तत्र न तावदाध्यात्मिकीमुक्तन्यायतो रत्नत्रयस्य तासां समर्थितत्वात् , नापि बाह्याम् , एवं हि महत्या तीर्थकरादिलक्ष्म्या गणधरादयश्चक्रधरादिलक्ष्म्याश्चेतरक्ष- ॥६८०॥ (रेऽक्ष)त्रियादयो न भाजनमिति तेपामप्यमहर्द्धिकत्वेनापकृष्यमाणत्वान्मुक्तिकारणवैकल्यप्रसङ्गः, यदपि मायादिप्रआकर्षवत्त्वेनेत्युच्यते, तदप्यसत्, तस्योभयोरपि तुल्यत्त्वेन दर्शनादागमे च श्रवणात् , श्रूयते हि चरमशरीरिणामपि ESCRICAUSA L ainelibrary.org Jnin Education in For Private & Personal Use Only
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy