SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ नारदादीनां मायादिप्रकर्षवत्त्वम् , अतो न तासां पुरुषेभ्योऽपकृष्यमाणत्वेन कारणावैकल्यस्य हेतोरसिद्धता, यदपि । निर्वाणस्थानाद्यप्रसिद्धत्वेनेत्युक्तं, तदप्यसाधकं, यतो न निर्वाणस्थानादिप्रसिद्धिः कारणावैकल्यस्य कारणं व्यापकं वा येन तन्निवृत्तौ तस्य निवृत्तिः, अथाऽऽत्थ यदि स्त्रीणां मुक्तिकारणावैकल्यमभविष्यत् मुक्तिरप्युदपत्स्यत, तथा च तत्स्थानादिप्रसिद्धिरपीति, नैवं, तत्स्थानादिप्रसिद्धि प्रति मुक्तेरव्यभिचारित्वाभावात् , अन्यथा हि पुरुषाणामपि येषां मुक्तिस्थानाद्यप्रसिद्धिस्तेषां तदभावप्रसङ्गः, अर्थतत्साधकप्रमाणाभावेन प्रकृतहेतोरसिद्धता, तत्रापि तत्साधकप्रमाणस्य किं प्रत्यक्षस्थानुमानस्यागमस्य वा?, तत्र यदि प्रत्यक्षस्य तदा किं स्वसम्बन्धिनः सर्वसम्बन्धिनो वा ?, खसम्बन्धिनोऽपि किं बाह्यं यद्यथोदितप्रत्युपेक्षणादिरूपं कारणावैकल्यं तद्विषयस्य यदिवाऽऽन्तरं यच्चारित्रादिपरिणामात्मकं तद्गोचरस्य ?, न तावदाद्यस्य, स्त्रीधपि यथोदितप्रत्युपेक्षणादेरखूणविधानस्येक्षणात् , अथ द्वितीयस्य तदा तदभावस्थाग्दिशां पुरुषेष्वपि समानत्वात्तेषामपि कारणावैकल्यस्यासिद्धिप्रसङ्गः, सर्वसम्बन्धिनस्तु प्रत्यक्षस्यासर्वविदा सत्त्वेनासत्त्वेन (वा) क्वचिन्निश्चेतुमशक्यत्वात् , तदभावेन प्रकृतहेतोरसिद्धतेत्यनुद्घोण्यमेव, अथानुमानस्य, तदप्यसत्, तदभावस्य पुरुषेष्वपि समानत्वात्, न ह्यग्दृशां स्त्री पुरुषेषु वा तत्त्वतस्तदव्यभिचारि लिङ्गमस्ति येनानुमानं स्यात्, अथास्त्येव पुरुषेष्वनुमानं, तथाहि-यदुत्कर्षापकर्षाभ्यां यस्यापकर्षात्कौ तस्यात्यन्तापकर्षे तदत्यन्तोकर्पवदृष्टं, यथाऽनपटलापगमे सवितृप्रकाशः, रागाद्युत्कर्षापकर्षाभ्यामपकर्षोत्कर्षवच चारित्रादि, न च रागाद्यपच उत्तरा. ११४ For Private & Personel Use Only jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy