SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥ ६८१॥ Jain Education I यप्रकर्षस्यासम्भवो यतो यत्प्रकृष्यमाणहानिकं तत्क्वचित्सम्भविहानिप्रकर्षनिष्टमपि दृष्टं यथा हेमनि कालिका किट्टादि, प्रकृष्यमाणहानयश्च रागादयः, तथैव तेषां प्राणिषु प्रतीतत्वात् नन्वेतत्स्त्रीष्वपि समानमिति, नाप्यागमस्य तस्य प्रस्तुतस्यापि साक्षात्स्त्रीनिर्वाणाभिधायित्वेनार्थतस्तत्कारणावैकल्यसाधकत्वात् न च स्त्रीशब्दस्यान्यार्थत्वं परिकल्पनीयं तद्धि लोकरूढितः आगमपरिभाषातो वा भवेत् ? न तावलोकरूढितः, लोके हि यस्मिन्नर्थे यः | शब्दोऽन्वयव्यतिरेकाभ्यां वाचकत्वेन दृश्यते स तस्यार्थो, यथा गवादिशब्दानां सास्त्रादिमदादयो, न च स्त्रीशब्दस्य | स्तनादिमदाकारमर्थमन्तरेणान्यस्यान्वयव्यतिरेकाभ्यां वाच्यत्वेन प्रतीतिरस्ति, उक्तं च- " स्तनजघनादिव्यङ्गये स्त्रीशब्दोऽर्थे न तं विहायैषः । दृष्टः क्वचिदन्यत्र त्वग्निर्माणवकवगौणः ॥ १ ॥” इति नाप्यागमपरिभाषातो यतो नागमे क्वचित्स्त्रीशब्दस्य परिभाषितोऽर्थो यथा व्याकरणे 'वृद्धिरादैजि' (पा० १-१ - १ ) ति वृद्धिशब्दस्यादैचौ, दृश्यते | चागमेऽपि लोकरूढ एवार्थे स्त्रीशब्दः "इत्थीओ जंति छट्ठि" इत्यादौ, न च तत्राप्यर्थान्तरपरिकल्पना, बाधकं विना तदनुपपत्तेः, उक्तं च- " परिभाषितो न शास्त्रे मनुजीशब्दोऽथ लौकिकोऽधिगतः । अस्ति च न तत्र बाधा स्त्रीनिर्वाणं ततो न कुतः १ ॥ १ ॥” अथ दृष्ट एवागमे पुरुषाभिलाषात्मनि वेदाख्ये भावे स्त्रीशब्दः, इदमपि कुतो निश्चितं ?, किं तावत्स्त्रीशब्द इतिशब्दश्रवणमात्रात्त्रीत्वस्य पल्यशतपृथक्त्वावस्थानाभिधानतो वा १, न तावत्स्त्रीवेद इति श्रवणमात्रत इति युक्तं, यदीह स्त्री चासौ वेदश्व स्त्रीवेद इति समानाधिकरणसमासो भवेत्तदा स्त्रीशब्दस्यार्थान्तरे For Private & Personal Use Only जीवाजीव विभक्ति ० ३६ ॥६८१॥ www.jainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy