________________
CSCOREDIOGAON
वृत्तिर्भवेत् , तत्सद्भावश्च बाधकाभावेन वा कल्प्येत समासान्तराभावेन वा ?, न तावद् वाधकाभावेन, तत्र हि स्त्रीशब्दस्य पुरुषाभिलाषात्मको भाव एवार्थो भवेत् , तथा च स्त्रीनिर्वाणसूत्रे-किं स एव साक्षादर्थस्तदुपलक्षितं वा शरीर ?, यदि स एव तदा किं तदैव तद्भावो विवक्ष्यते भूतपूर्वगत्या वा ?, तत्र यदि तदैव तदा निर्वाणावस्थायामपि वेदसम्भवो, न चैतदागमिकम् , अथ भूतपूर्वगत्या तदा देवादीनामपि निर्वाणप्राप्तिः, तथा च "सुरणारएसु चत्तारि होंति" इत्याद्यागमविरोधः, तेष्वपि भूतपूर्वगत्या चतुर्दशगुणस्थानसम्भवात्, अथ तदुपलक्षितं [वा] पुरुषशरीर तदाऽसौ तदुपलक्षणं तत्र नियतवृत्तिरनियतवृत्तिा ?, यदि नियतवृत्तिस्तदाऽऽगमविरोधः, परिवर्त्तमानतयैव पुरुपशरीरे वेदोदयस्य तत्राभिधानात्, न चानुभवोऽप्येवमस्ति, अथानियतवृत्तिः कथमसौ तदुपलक्षणम् ?, अथैवंरूपमपि गृहादिषु काकाद्युपलक्षणमीक्ष्यत इत्यत्रापि तथोच्यते, एवं सति स्त्रीशरीरेऽपि कदाचित्पुरुषवेदस्योदयसम्भवात् स्त्रीणामपि निर्वाणापत्तिः, यथा हि पुरुषाणां भावतः स्त्रीत्वमेवं स्त्रीणामपि भावतः पुरुषत्वसम्भवोऽस्ति, भाव एव च मुख्यं मुक्तिकारणं, तथा च यद्यपकृष्टेनापि स्त्रीत्वेन पुरुषाणां निर्वाणमेवमुत्कृष्टेन भावपुरुषत्वेन स्त्रीणामपि किं न निर्वाणम् ? इति, न च समासान्तरासम्भवन स्त्रीवेद इत्यत्र समानाधिकरणसमासकल्पनं, स्त्रिया वेदः स्त्रीवेद इति षष्ठीसमासस्यापि सम्भवात्, न चास्य स्त्रीशरीरपुरुषाभिलापात्मकवेदयोः सम्बन्धाभावेनायुक्तत्वमिति
१ सुरनारकेषु चत्वारि भवन्ति (गुणस्थानानि)
X
For Private Personel Use Only