________________
उत्तराध्य.
जीवाजीव विभक्तिः
बृहद्वृत्तिः
॥६८२॥
वाच्यं, यतस्तयोः सम्बन्धाभावः किं भिन्नकर्मोदयरूपत्वेन पुरुषवस्त्रिया अपि स्त्रियां प्रवृत्तिदर्शनेन वा ?, न तावदिन्नकर्मोदयरूपत्वेन, भिन्नकर्मोदयरूपाणामपि पञ्चेन्द्रियजात्यादीनां देवगत्यादीनां च सदा सम्बन्धदर्शनात्, नापि पुरुषवस्त्रिया अपि स्त्रियां प्रवृत्तिदर्शनेन, इयं हि पुरुषाप्राप्तौ खवेदोदयादपि संभवत्येव, उक्तञ्च-“सा खकवेदात्तिर्यग्वदलाभे मत्तकामिन्याः" इति, अथ स्त्रीत्वस्य पल्यशतपृथक्त्वावस्थानाभिधानादेवमुच्यते, इदमपि न सुन्दरं, तत्र स्त्रीत्वानुबन्धस्य विवक्षितत्वात् , संभवति हि रूयाकारविच्छिदेऽपि तत्कारणकर्मोदयाविच्छेदः, तदविच्छेदाच पुंस्त्वाद्यव्यवधानेन पुनः स्त्रीशरीरग्रहणमिति, किञ्च-"मणुयगईए चउदस गुणठाणाणि होति" तथा पंचिंदिएसु गुणठाणाणि हुंति चउदस' तथा 'चउदस तसेसु गुणठाणाणि हुंति' तथा 'भवसिद्धिगा व सव्वट्ठाणेसु होति" इत्यादि स्त्रीशब्दरहितमपि प्रवचनं स्त्रीनिर्वाणे प्रमाणमस्ति, स्त्रीणामपि पुंवन्मनुष्यगत्यादिधर्मयोगात्, अथ सामान्यविषयत्वान्नेदं स्त्रीविशेषे प्रमाणम् , एवं सति पुरुषाणामपि विशेषरूपताऽस्ति न वा १, न तावन्नास्ति, मनुष्यगतिविशेषरूपत्वात्तेषाम् , अथास्ति विशेषरूपता, तथा सति तेष्वपि कथमेतत्प्रमाणं?, यथा च तेषु प्रमाणं तथा किं न स्त्रीप्वपीति ?, अथ पुरुपेष्वेव तदर्थवदिति स्त्रीषु तस्याप्रवृत्तिः, एवं सति किं न विपर्ययकल्पनापि ?,
न चैवमपर्याप्तकमनुष्यादीनां देवनारकतिरश्चां च निर्वाणप्रसङ्गः, तेषामेतद्वाक्याविषयत्वात्, एतदविषयत्वं चाप६ वादविषयत्वात् , उक्तं हि-"अपवादविषयं परिहत्य उत्सर्गःप्रवर्तते" इति, अपवादश्च-"मिच्छादिट्ठी अपज
॥६८२॥
Jain Education
For Private Personel Use Only
jainelibrary.org