________________
COCCACANCAUS
तगे' तथा 'सुरनारएसु होंति चत्तारि तिरिएसु जाण पंचेव" इत्यादिरागमः, आह च-"मनुजगतौ सन्ति गुणाश्चतुर्दशेत्याद्यपि प्रमाणं स्यात् । पुंवत्स्त्रीणां सिद्धी नापर्याप्तादिवद्वाधा ॥१॥” इति कृतं विस्तरेण । सम्प्रति ६ सिद्धानेवावगाहनातः क्षेत्रतश्चाह-उत्कृष्टा-सर्वमहती चासौ अवगाहन्तेऽस्यां जन्तव इत्यवगाहना च-शरीरमुत्कृष्टावगाहना पञ्चधनु शतप्रमाणा तस्यां सिद्धाः 'चः' समुचये 'जहन्न मज्झिमाइ यत्ति अवगाहनायामिति प्रक्रमात्प्रत्येक योज्यते ततः 'जघन्यावगाहनायां' द्विहस्तमानशरीररूपायां सिद्धाः 'मध्यमावगाहनायां च' उक्त
रूपोत्कृष्टजघन्यावगाहनान्तरालवर्त्तिन्यां सिद्धाः 'ऊर्द्ध'मित्यूर्द्धलोके मेरुचूलिकादौ सिद्धाः, संभवति हि तत्रापि है केषाञ्चित्सिद्धप्रतिमावन्दनाद्यर्थमुपगतानां चारणश्रमणादीनां मुक्त्यवाप्तिः, 'अधश्च' अधोलोकेऽर्थादधोलौकिकया
मरूपेऽपि सिद्धाः, 'तिरियं च'त्ति 'तिर्यग्लोके च' अर्द्धतृतीयद्वीपसमुद्ररूपे तत्रापि केचित् 'समुद्रे' जलधौ सिद्धाः ६ 'जले च' नद्यादिसम्बन्धिनि सिद्धाः, भूभूधराद्यशेषास्पदोपलक्षणमेतत् , अर्द्धतृतीयद्वीपसमुद्रेषु हि न क्वचिन्मुक्त्य
वाप्तिनिषेध इति सूत्रार्थः ॥ इत्थं स्त्रीसिद्धादीनभिदधता स्त्रीत्वादिपु सिद्धिसम्भव उक्तः, सम्प्रति तत्रापि क कियन्तः सिद्ध्यन्ति ? इत्याशङ्कयाह- दस य नपुंसएमुं, वीसं इत्थियासु य । पुरिसेसु य अढसयं, समएणेगेण सिज्झई ॥५२॥ चत्तारि य गिहिलिंगे, अन्नलिंगे सेव य । सलिंगेण य अहसयं, समएणेगेण सिज्झई ॥५३॥ उक्कोसोगाहणाए उ,
I CALCANCook
JainEducation
For Private Personal Use Only
Mawjainelibrary.org