Book Title: Uttaradhyayani Part_3
Author(s): Bhadrabahuswami, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
बृहद्वृत्तिः
॥ ६८१॥
Jain Education I
यप्रकर्षस्यासम्भवो यतो यत्प्रकृष्यमाणहानिकं तत्क्वचित्सम्भविहानिप्रकर्षनिष्टमपि दृष्टं यथा हेमनि कालिका किट्टादि, प्रकृष्यमाणहानयश्च रागादयः, तथैव तेषां प्राणिषु प्रतीतत्वात् नन्वेतत्स्त्रीष्वपि समानमिति, नाप्यागमस्य तस्य प्रस्तुतस्यापि साक्षात्स्त्रीनिर्वाणाभिधायित्वेनार्थतस्तत्कारणावैकल्यसाधकत्वात् न च स्त्रीशब्दस्यान्यार्थत्वं परिकल्पनीयं तद्धि लोकरूढितः आगमपरिभाषातो वा भवेत् ? न तावलोकरूढितः, लोके हि यस्मिन्नर्थे यः | शब्दोऽन्वयव्यतिरेकाभ्यां वाचकत्वेन दृश्यते स तस्यार्थो, यथा गवादिशब्दानां सास्त्रादिमदादयो, न च स्त्रीशब्दस्य | स्तनादिमदाकारमर्थमन्तरेणान्यस्यान्वयव्यतिरेकाभ्यां वाच्यत्वेन प्रतीतिरस्ति, उक्तं च- " स्तनजघनादिव्यङ्गये स्त्रीशब्दोऽर्थे न तं विहायैषः । दृष्टः क्वचिदन्यत्र त्वग्निर्माणवकवगौणः ॥ १ ॥” इति नाप्यागमपरिभाषातो यतो नागमे क्वचित्स्त्रीशब्दस्य परिभाषितोऽर्थो यथा व्याकरणे 'वृद्धिरादैजि' (पा० १-१ - १ ) ति वृद्धिशब्दस्यादैचौ, दृश्यते | चागमेऽपि लोकरूढ एवार्थे स्त्रीशब्दः "इत्थीओ जंति छट्ठि" इत्यादौ, न च तत्राप्यर्थान्तरपरिकल्पना, बाधकं विना तदनुपपत्तेः, उक्तं च- " परिभाषितो न शास्त्रे मनुजीशब्दोऽथ लौकिकोऽधिगतः । अस्ति च न तत्र बाधा स्त्रीनिर्वाणं ततो न कुतः १ ॥ १ ॥” अथ दृष्ट एवागमे पुरुषाभिलाषात्मनि वेदाख्ये भावे स्त्रीशब्दः, इदमपि कुतो निश्चितं ?, किं तावत्स्त्रीशब्द इतिशब्दश्रवणमात्रात्त्रीत्वस्य पल्यशतपृथक्त्वावस्थानाभिधानतो वा १, न तावत्स्त्रीवेद इति श्रवणमात्रत इति युक्तं, यदीह स्त्री चासौ वेदश्व स्त्रीवेद इति समानाधिकरणसमासो भवेत्तदा स्त्रीशब्दस्यार्थान्तरे
For Private & Personal Use Only
जीवाजीव
विभक्ति ०
३६
॥६८१॥
www.jainelibrary.org

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408