Book Title: Tulsi Prajna 1996 01
Author(s): Parmeshwar Solanki
Publisher: Jain Vishva Bharati
View full book text
________________
किं नाग्न्य - परीषहः ?
3
नाग्न्यपरीषहस्तु न निरुपकरणतैव दिगम्बरभौतादिवत् । किं तर्हि ? (प्रवचनोक्तविधानेन नाग्न्यम् । प्रवचने तु द्विप्रकारः कल्पः – जिनकल्पः स्थविरकल्पश्च । तत्र स्थविरकल्प परिनिष्पन्नः क्रमेण धर्मश्रवणसमनन्तरं प्रव्रज्याप्रतिपत्तिः । ततो द्वादश वर्षाणि सूत्रग्रहणं पश्चात् द्वादश वर्षाण्यर्थग्रहणं ततो द्वादशवर्षाण्यनियतवासी देशदर्शनं कुरुते । कुर्वन्नेव च देशदर्शनं निष्पादयति शिव्यान् । शिष्यनिष्पत्तेरनन्तरं प्रतिपद्यते अभ्युद्यतविहारम् ।
स च त्रिविध:-- जनकल्पः शुद्धः परिहारो यथालन्दश्च । तत्र जिनकल्पप्रतिपत्तियोग्य एव जिनकल्पं प्रतिपत्तुकामः प्रथममेव तपः सत्त्वादिभावनाभिरात्मानं भावयति । भावितात्मा च द्विविधे परिकर्मणि प्रवर्तते । यदि पाणिपात्रलब्धिरस्ति ततस्त
दनुरूपमेव परिकर्माचेष्टते । अथ पाणिपात्रलब्धिर्नास्ति ततः प्रतिग्रहारित्वपरिकर्मणि तत्रः य पाणिपात्रलब्धिसम्पन्नस्तस्योपधिरवश्यंतया रजोहरणं मुखवस्त्रिका
प्रवर्तते । च ।
कल्पग्रहणात् त्रिविधश्चतुर्विधः पञ्चविधो वा । प्रतिग्रहधारिणस्तु नवप्रकारोऽवश्यं तथा, कल्प ग्रहणाद् दशविध एकादशविधो ( द्वादशविधो) वा उपधिरागमाभिहितः । एवंविधं नाग्न्यमिष्टम् । दशविधसामाचार्यां चेमाः पञ्च तेषां सामाचार्य : आप्रच्छन्नं मिथ्यादुष्कृतमावश्यका निशीथि (षेधि ? ) का गृहस्थोपसम्पच्च । उपरितनी ar त्रिप्रकारा सामाचारी आवश्यकादिका । श्रुतसम्पदपि तेषामाचारवस्तु नवमस्य पूर्वस्य जघन्यतः । तत्र हि कालपरिज्ञानं न्यक्षेण, उत्कर्षेण दश पूर्वाणि भिन्नानि, न सम्पूर्णानि । वज्रर्षभनाराचसंहननाश्च ते वज्र कुडयकल्पधृतयः । स्थितिरपि तेषां क्षेत्रादिका अनेकभेदा । क्षेत्रतस्तावद् जन्मना सद्भावेन च सर्वास्वेव कर्मभूमिषु, संहरणतः कदाचित् कर्मभूमावकर्मभूगौ वा, अवसर्पियां कालतः तृतीयचतुर्थयोः समयोजन्मतः त्रिचतुर्थपञ्चमीषु सद्भावः । चतुर्थ्यां लब्धजन्मा पञ्चम्यां प्रव्रजति । उत्सर्पिण्या दुष्षमादिषु त्रिषु कालविभागेषु जन्म, द्वयोस्तु सद्भाव: । सामायिकच्छेदोपस्थाप्ययोजिनकल्पप्रतिपत्तिश्चरणयोः । एवं तीर्थ पर्यायागमवेदादिकाऽपि स्थितिरुपपुज्यागमानुसारेण वाच्या |
ननु चाचेलक्यादिर्दशविधः कल्पः । तत्राचेलक्यं स्फुटमेवोक्तम् । तत्र च मध्यमतीर्थवर्तिनां सामायिकसंयतानां चतुर्विधः कल्पोऽवस्थितोऽवश्यं तथा करणीयः ।
यथाऽऽह
शय्यातरपिण्डत्यागः कृतिकर्म च तथा व्रतादेशः । पुरुषज्येष्ठत्वं हि चत्वारोऽवस्थिताः कल्पाः ॥
षड्विधश्चानवस्थितः कल्पः ।
२२, अंक ४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246