SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ किं नाग्न्य - परीषहः ? 3 नाग्न्यपरीषहस्तु न निरुपकरणतैव दिगम्बरभौतादिवत् । किं तर्हि ? (प्रवचनोक्तविधानेन नाग्न्यम् । प्रवचने तु द्विप्रकारः कल्पः – जिनकल्पः स्थविरकल्पश्च । तत्र स्थविरकल्प परिनिष्पन्नः क्रमेण धर्मश्रवणसमनन्तरं प्रव्रज्याप्रतिपत्तिः । ततो द्वादश वर्षाणि सूत्रग्रहणं पश्चात् द्वादश वर्षाण्यर्थग्रहणं ततो द्वादशवर्षाण्यनियतवासी देशदर्शनं कुरुते । कुर्वन्नेव च देशदर्शनं निष्पादयति शिव्यान् । शिष्यनिष्पत्तेरनन्तरं प्रतिपद्यते अभ्युद्यतविहारम् । स च त्रिविध:-- जनकल्पः शुद्धः परिहारो यथालन्दश्च । तत्र जिनकल्पप्रतिपत्तियोग्य एव जिनकल्पं प्रतिपत्तुकामः प्रथममेव तपः सत्त्वादिभावनाभिरात्मानं भावयति । भावितात्मा च द्विविधे परिकर्मणि प्रवर्तते । यदि पाणिपात्रलब्धिरस्ति ततस्त दनुरूपमेव परिकर्माचेष्टते । अथ पाणिपात्रलब्धिर्नास्ति ततः प्रतिग्रहारित्वपरिकर्मणि तत्रः य पाणिपात्रलब्धिसम्पन्नस्तस्योपधिरवश्यंतया रजोहरणं मुखवस्त्रिका प्रवर्तते । च । कल्पग्रहणात् त्रिविधश्चतुर्विधः पञ्चविधो वा । प्रतिग्रहधारिणस्तु नवप्रकारोऽवश्यं तथा, कल्प ग्रहणाद् दशविध एकादशविधो ( द्वादशविधो) वा उपधिरागमाभिहितः । एवंविधं नाग्न्यमिष्टम् । दशविधसामाचार्यां चेमाः पञ्च तेषां सामाचार्य : आप्रच्छन्नं मिथ्यादुष्कृतमावश्यका निशीथि (षेधि ? ) का गृहस्थोपसम्पच्च । उपरितनी ar त्रिप्रकारा सामाचारी आवश्यकादिका । श्रुतसम्पदपि तेषामाचारवस्तु नवमस्य पूर्वस्य जघन्यतः । तत्र हि कालपरिज्ञानं न्यक्षेण, उत्कर्षेण दश पूर्वाणि भिन्नानि, न सम्पूर्णानि । वज्रर्षभनाराचसंहननाश्च ते वज्र कुडयकल्पधृतयः । स्थितिरपि तेषां क्षेत्रादिका अनेकभेदा । क्षेत्रतस्तावद् जन्मना सद्भावेन च सर्वास्वेव कर्मभूमिषु, संहरणतः कदाचित् कर्मभूमावकर्मभूगौ वा, अवसर्पियां कालतः तृतीयचतुर्थयोः समयोजन्मतः त्रिचतुर्थपञ्चमीषु सद्भावः । चतुर्थ्यां लब्धजन्मा पञ्चम्यां प्रव्रजति । उत्सर्पिण्या दुष्षमादिषु त्रिषु कालविभागेषु जन्म, द्वयोस्तु सद्भाव: । सामायिकच्छेदोपस्थाप्ययोजिनकल्पप्रतिपत्तिश्चरणयोः । एवं तीर्थ पर्यायागमवेदादिकाऽपि स्थितिरुपपुज्यागमानुसारेण वाच्या | ननु चाचेलक्यादिर्दशविधः कल्पः । तत्राचेलक्यं स्फुटमेवोक्तम् । तत्र च मध्यमतीर्थवर्तिनां सामायिकसंयतानां चतुर्विधः कल्पोऽवस्थितोऽवश्यं तथा करणीयः । यथाऽऽह शय्यातरपिण्डत्यागः कृतिकर्म च तथा व्रतादेशः । पुरुषज्येष्ठत्वं हि चत्वारोऽवस्थिताः कल्पाः ॥ षड्विधश्चानवस्थितः कल्पः । २२, अंक ४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524586
Book TitleTulsi Prajna 1996 01
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1996
Total Pages246
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy