SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ यथोक्तम् आचेलक्यौद्देशिक-नृपपिण्डत्याग-मासकल्पाश्च । वर्षाविधिः प्रतिक्रमणविधानं वाऽनवस्थिता: कल्पाः ॥ आद्यचरमतीर्थङ्करतीर्थ तिनां तु दशविधो व्यवस्थितः कल्पः । अस्य तु पुनर्भगवतस्तीर्थे श्रीवर्धमानचन्द्रस्य । स्थित एवेष्ट: कल्पः स्थानेषु दशस्वपि यथावत् ।। किं पुनः कारणमेतदेवं तीर्थकृतां विषममुपदेशनम् ? आर्जव-जडा अनार्जव-जडा वृषभ-वीरतीर्थकालभवाः । मनुजा यस्मात् तस्मात्, कल्पः स्थित एव स प्रोक्तः ।। सत्यमुक्तमाचेलक्यम् । तत् तु यथोक्त तथा कर्त्तव्यम् । तीर्थकरकल्पस्तावदन्य एव, मति-श्रुता-ऽवधिज्ञानिनः प्रतिपन्नचारित्रास्तु चतुर्जा निन इति युक्तमेव तेषां पाणिपात्रभोजित्वमेकदेवदूष्यपरिग्रहाश्च । साधवस्तु तदुपदिष्ठाचारानुष्ठायिनो जीर्णखण्डितासर्वतनुप्रावरणाः श्रुतोपदेशेन विद्यमानैवंविधवाससोऽप्यचेलका एव । यथाऽऽपगोत्तरणे शाटकपरिवेष्टितशिराः पुरुषो नग्न उच्यते सवस्त्रकोऽपि, तथाऽत्र गुह्यप्रदेशस्थगनाय गृहीतचोलपट्टकोऽपि नग्न एवेति । योषिच्च काचिद् परिजूर्ण शाटिकापिधाना तन्तुवायमाह-नग्नाऽहं, देहि मे शाटिकामिति । एवं साधवोऽप्यमहाधनमूल्यानि खण्डितानि जीर्णानि च बिभ्रतः श्रुतोपदेशाद् धर्मबुद्धया नाग्न्यभाज एवेति । चारित्रसूत्रे शुद्धपारिहारिकान् वक्ष्यामः ॥ . यथालन्दिकास्तु भण्यन्ते । लन्दमिति कालस्याख्या । तच्च पञ्चरात्रं, तेषां हि पञ्चको गच्छः, सामाचारी तु तेषां जिनकल्पिकैस्तुल्या, सूत्रप्रमाणभिक्षाचर्याकल्पान विहाय, तत्रापरिसमाप्ताल्पसूत्रार्थास्तु गच्छप्रतिबद्धाः। परिसमाप्तास्त्विप्रतिबद्धाः । तत्र केचित् जिनकल्पिकाः केचित् स्थविरकल्पिका यथालन्दिनः। तत्र जिनकल्पिकाः निष्प्रतिकर्मशरीराः समुत्पन्नरोगाश्चिकित्सायां न प्रवर्तन्ते, नेत्रमलाद्यपि नापनयन्ति स्थविरकल्पिकास्तुत्पन्नरोगं गच्छे प्रक्षिपन्ति । गच्छोऽपि प्रासुकैषणीयेन परिकर्म करोति भैषजादिना । स्थविरकल्पिकास्त्वेकैकप्रतिग्रहधारिणः सप्रावरणाः । जिनकल्पिकानां तु वस्त्रपात्राणि भाज्यानि । एकत्र पञ्चपञ्चरात्रचारिण एते। गणप्रमाणं जघन्यतस्त्रयो गणाः, शतश उत्कृष्टाः । भिक्षाचर्या तु तेषां पञ्चैव, एकैकवीथौ चरन्तः पञ्चभिः षट्कर्मासकल्पं परिसमापयन्ति । स्थितास्थितकल्पयोश्च द्वयोरपि ते भवन्ति। एवमेते जिनकल्पिकादयो गच्छनिर्गतास्तत्र यद्येवंविधं नाग्न्यमिष्यते तदा नागमोपरोधः । अथ परिधानकपरित्यागमानं ततस्तदप्रमाणकं न मनांसि प्रीणयति जैनेन्द्रशासनानुसारिणामिति । स्थविरकल्पिकास्तु चतुर्दशविधोपधयः उत्सर्गापवादव्यवहारिणः औपग्रहिकोपधिधारिणश्च । प्रव्रज्यादिद्वारसमधिगम्याः आचार्यो-पाध्याय-स्थविर-भिक्षु-क्षुल्लकविभागाः मासकल्पविहारिणः परितनुकमूल्यवसनस्थगिताग्रिमभागाः वर्षाकल्पादिपारिभोगकारिणः दशविधसामाचार्यनुष्ठायिनः उद्गमोत्पादनषणादिशुद्धाहारोपधिशय्यासेविनश्चेति । एवं जिनकल्पिकादीनां गच्छवासिनां च पारमर्षप्रवचनानुसारिणां नाग्न्यपरीषहजयः सम्भवतीति, नान्येषाम् । १० 'तुलसी प्रशा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.524586
Book TitleTulsi Prajna 1996 01
Original Sutra AuthorN/A
AuthorParmeshwar Solanki
PublisherJain Vishva Bharati
Publication Year1996
Total Pages246
LanguageHindi
ClassificationMagazine, India_Tulsi Prajna, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy