Book Title: Trishashtishalakapurushcharitammahakavyam Parva 5 6 7
Author(s): Hemchandracharya, Ramnikvijay Gani
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 187
________________ १७० कलिकालसर्वज्ञश्री हेमचन्द्राचार्यप्रणीतं तदा मांसनिवृत्तिं त्वं प्रत्यज्ञासीर्विवेकतः । पुरोहितेन तेनोपमन्युनोक्तश्च भग्नवान् ||४०६|| पुरोधाः सोऽन्यदा पुंसा स्कन्दनाम्ना निपातितः । गजश्चाऽभूद् गृहीतश्च भूरिनन्दनभूभुजा ॥४०७॥ तश्चेभरणे सोऽथ भूरिनन्दनभूपतेः । गन्धारायामभूत् पत्न्यां सूनुर्नाम्नाऽरिसूदनः ॥ ४०८ ॥ सञ्जातजातिस्मरणः प्रव्रज्य च विपद्य च । सोऽहं देवः सहस्रारे कल्पे जातोऽस्मि विद्धि माम् ॥४०९॥ भूरिनन्दनराजोऽभूद् विपद्याऽजगरो वने । दग्धो दावेन सोऽयासीद् द्वितीयं नरकावनिम् ||४१०।। नरकेऽपि मया गत्वा स प्राक्स्नेहात् प्रबोधितः । तस्मादुद्धृत्य सोऽभूस्त्वं रत्नमालीह पार्थिवः ॥ ४११ ॥ मांसप्रत्याख्यानभङ्गं तदानीमिव सम्प्रति । अनन्तदुःखोदर्कं तत् पुरदाहं स्म मा कृथाः ॥ ४१२॥ तेदाकर्ण्य वचो युद्धाद् रत्नमाली न्यवर्तत । राज्ये न्यधत्त च कुलनन्दनं सूर्य नन्दनम् ॥४१३॥ सूर्यञ्जयेन पुत्रेण सहैव व्रतमाददे । तत्कालमेव तिलकसुन्दराचार्य सन्निधौ ॥ ४१४ ॥ द्वावप्यभूतां तौ मृत्वा महाशुक्रेऽमरोत्तमौ । सूर्यञ्जयस्ततश्च्युत्वा भोस्त्वं दशरथोऽभवः ॥४१५॥ प्रच्युत्य रत्नमाली तु जनकोऽयमजायत । अभूच्च्युत्वोपमन्युस्तु कनको जनकानुजः ॥४१६ ॥ नन्दिघोषः पिता यस्ते नन्दिवर्धनजन्मनि । सोऽहं ग्रैवेयकाच्च्युत्वा सत्यभूतिरिहाऽभवम् ॥४१७॥ तच्छ्रुत्वा जातसंवेगस्तं वन्दित्वाऽनरण्यजः । प्रविव्रजिषुराधातुं रामे राज्यं गृहं ययौ ॥ ४१८॥ ॥अथ राज्ञीः सुतान् मन्त्रिमुख्यानाहूय पार्थिवः । आपप्रच्छे यथौचित्यं दैत्तालापसुधारसः ॥४१९॥ नत्वा बभाषे भरतोऽहं सर्वविरतिं प्रभो! । त्वया सममुपादास्येऽवस्थास्ये त्वां विना न हि ॥ ४२० ॥ ममाऽन्यथा हि द्वे कष्टे स्वामिन्नत्यन्तर्दुः सहे । एकं त्वत्पादविरहोऽपरं संसौरतर्पणम् ॥४२१ ॥ 'तच्छ्रुत्वा चाऽथ कैकेयी निश्चितं भाव्यतः परम् । न पतिर्न च मे सूनुरिति भीर्तीऽब्रवीदिदम् ॥४२२।। स्वामिन्! स्मरसि यो दत्तस्त्वया मह्यं स्वयं वरः । स्वयंवरोत्सवे तत्र तेन सौरथ्यकर्मणा ? ॥४२३॥ तं प्रयच्छाऽर्धुना मह्यं नाथ! सत्यप्रतिश्रव! । प्रस्तरोत्कीर्णरेखेव प्रतिज्ञा हि महात्मनाम् ॥४२४॥ अथाऽवदद् दशरथः प्रतिपन्नं स्मराम्यहम् । याचस्व यन्ममाऽधीनं विना व्रतनिषेधनम् ॥४२५॥ ततो ययाचे कैकेयी त्वं चेत् प्रव्रजसि स्वयम् । स्वामिन्! विश्वम्भरामेतां भरताय प्रयच्छ तत् ॥४२६॥ अद्यैव गृह्यतामेषा मद्भूरित्यभिधाय ताम् । सलक्ष्मणं समायातं रामं दशरथोऽवदत् ॥४२७॥ अस्याः सारथ्यतुष्टेन दत्तः पूर्वं मया वरः । सोऽयं भरतराज्येन कैकेय्या याचितोऽधुना ॥ ४२८ ॥ रामोऽपि हृष्टोऽभाषिष्ट मात्रेदं साधु याचितम् । यन्मद्भ्रात्रे भरताय राज्यदानं महौजसे ||४२९ ॥ आपप्रच्छे प्रसादान्मामिदं तातस्तथाऽप्यदः । दुनोति मामविनयसूचनाकारणं जने ॥४३०॥ अप्येकबन्दिने राज्यं तुष्टस्तातो ददात्वदः । निषेधेऽनुमतौ वा मे न स्वाम्यं पत्तिमानिनः || ४३१|| भरतोऽप्यहमेवाऽस्मि निर्विशेषावुभौ तव । अतोऽभिषिच्यतां राज्ये भरतः परया मुदा ॥ ४३२ ॥ (सप्तमं पर्व इति रामवचः श्रुत्वा भूपतिः प्रीतिविस्मितः । आदिक्षन् मन्त्रिणो यावद् भरतस्तावदब्रवीत् ॥४३३॥ स्वामिन्! सह व्रतादानमादावप्यर्थितं मया । तात! तन्नाऽन्यथा कर्तुं कस्याऽपि वचसाऽर्हसि ॥ ४३४ ॥ राजाऽप्युवाच मा वत्स! मत्प्रतिज्ञां मुधा कुरु । वरो मया हि त्वन्मातुर्दत्तो न्यासीकृतश्चिरम् ॥४३५॥ सोऽद्य ते राज्यदानेन कैकेय्या याचितोऽनघ ! । आज्ञां मम च मातुश्च नाऽन्यथा कर्तुमर्हसि ॥४३६|| रामो भरतमित्यूचे न ते गैर्द्धाऽस्ति यद्यपि । तथाऽपि सत्यापयितुं तातं त्वं राज्यमुद्वह ॥४३७॥ १. ० राजाऽभू० ता. ॥ २. ० स्नेहावबो० ता. ॥ ३.० दुद्धृत्य ला. विना ॥। ४. अनन्तदुःखानि एव उदर्कः परिणामः यस्य तम् ॥ ५. इत्याकर्ण्य खं. १ ।। ६. कुलनन्दनं कुलनन्दनं ता.; सूर्यञ्जयस्य पुत्रं कुलनन्दननामानम् ।। ७. दशरथः ॥ ८. प्रविव्रजिषुरुत्थाय जगाम निजमालयम् हे. छा. पा. मो. ता. खं. २, पाता. ॥ ९. गृहे खं. १ ।। १०. राजा राज्ञी - सुता ऽमात्यानथ दीक्षोत्सुकः स्वयम् खं. १, ला. कां. ला ॥ ११. दत्त आलाप एव सुधारसो येन सः ।। १२. ०दुःखदे कां. ला. खं. १, ला. ॥। १३. संसारवृद्धिः ॥ १४. ध्यात्वाऽब्रवी० मु. खं. २, पाता. हे मो. प्रभृतिषु ॥ १५. सारथित्वस्य कर्मणा - कार्येण ।। १६. ० च्छानुना नित्यं खं. १ ।। १७. सत्यप्रतिज्ञ ! ॥ १८. प्रस्तर: - पाषाण: ।। १९. पृथ्वीं राज्यमित्यर्थः ॥ २०. समाहूय मु. खं. १, ला.प्रभृतिषु ॥ २१. तातो मां प्रसादात् पृच्छति, किन्तु लोके इयं तातकृता पृच्छा ममाऽविनयस्य सूचनां करिष्यति, यद् रामो न विनयी, अतस्तातस्तं पृष्ट्वा भरताय ददाति, एतच्च न युक्तमतो मां दुनोति इत्यर्थः ॥ २२. अप्येकनन्दने पाता. ॥ २३. स्वाम्यं स्वामित्वं, आत्मानं पत्तिं सामान्यसेवकं मन्यते यः सोऽहं तस्य (मम) ॥ २४. गर्द्ध: - आसक्ति:; गर्वोऽस्ति मु. प्रभृतिषु ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338