________________
१७०
कलिकालसर्वज्ञश्री हेमचन्द्राचार्यप्रणीतं
तदा मांसनिवृत्तिं त्वं प्रत्यज्ञासीर्विवेकतः । पुरोहितेन तेनोपमन्युनोक्तश्च भग्नवान् ||४०६|| पुरोधाः सोऽन्यदा पुंसा स्कन्दनाम्ना निपातितः । गजश्चाऽभूद् गृहीतश्च भूरिनन्दनभूभुजा ॥४०७॥ तश्चेभरणे सोऽथ भूरिनन्दनभूपतेः । गन्धारायामभूत् पत्न्यां सूनुर्नाम्नाऽरिसूदनः ॥ ४०८ ॥ सञ्जातजातिस्मरणः प्रव्रज्य च विपद्य च । सोऽहं देवः सहस्रारे कल्पे जातोऽस्मि विद्धि माम् ॥४०९॥ भूरिनन्दनराजोऽभूद् विपद्याऽजगरो वने । दग्धो दावेन सोऽयासीद् द्वितीयं नरकावनिम् ||४१०।। नरकेऽपि मया गत्वा स प्राक्स्नेहात् प्रबोधितः । तस्मादुद्धृत्य सोऽभूस्त्वं रत्नमालीह पार्थिवः ॥ ४११ ॥ मांसप्रत्याख्यानभङ्गं तदानीमिव सम्प्रति । अनन्तदुःखोदर्कं तत् पुरदाहं स्म मा कृथाः ॥ ४१२॥ तेदाकर्ण्य वचो युद्धाद् रत्नमाली न्यवर्तत । राज्ये न्यधत्त च कुलनन्दनं सूर्य नन्दनम् ॥४१३॥ सूर्यञ्जयेन पुत्रेण सहैव व्रतमाददे । तत्कालमेव तिलकसुन्दराचार्य सन्निधौ ॥ ४१४ ॥ द्वावप्यभूतां तौ मृत्वा महाशुक्रेऽमरोत्तमौ । सूर्यञ्जयस्ततश्च्युत्वा भोस्त्वं दशरथोऽभवः ॥४१५॥ प्रच्युत्य रत्नमाली तु जनकोऽयमजायत । अभूच्च्युत्वोपमन्युस्तु कनको जनकानुजः ॥४१६ ॥ नन्दिघोषः पिता यस्ते नन्दिवर्धनजन्मनि । सोऽहं ग्रैवेयकाच्च्युत्वा सत्यभूतिरिहाऽभवम् ॥४१७॥ तच्छ्रुत्वा जातसंवेगस्तं वन्दित्वाऽनरण्यजः । प्रविव्रजिषुराधातुं रामे राज्यं गृहं ययौ ॥ ४१८॥ ॥अथ राज्ञीः सुतान् मन्त्रिमुख्यानाहूय पार्थिवः । आपप्रच्छे यथौचित्यं दैत्तालापसुधारसः ॥४१९॥ नत्वा बभाषे भरतोऽहं सर्वविरतिं प्रभो! । त्वया सममुपादास्येऽवस्थास्ये त्वां विना न हि ॥ ४२० ॥ ममाऽन्यथा हि द्वे कष्टे स्वामिन्नत्यन्तर्दुः सहे । एकं त्वत्पादविरहोऽपरं संसौरतर्पणम् ॥४२१ ॥ 'तच्छ्रुत्वा चाऽथ कैकेयी निश्चितं भाव्यतः परम् । न पतिर्न च मे सूनुरिति भीर्तीऽब्रवीदिदम् ॥४२२।। स्वामिन्! स्मरसि यो दत्तस्त्वया मह्यं स्वयं वरः । स्वयंवरोत्सवे तत्र तेन सौरथ्यकर्मणा ? ॥४२३॥ तं प्रयच्छाऽर्धुना मह्यं नाथ! सत्यप्रतिश्रव! । प्रस्तरोत्कीर्णरेखेव प्रतिज्ञा हि महात्मनाम् ॥४२४॥ अथाऽवदद् दशरथः प्रतिपन्नं स्मराम्यहम् । याचस्व यन्ममाऽधीनं विना व्रतनिषेधनम् ॥४२५॥ ततो ययाचे कैकेयी त्वं चेत् प्रव्रजसि स्वयम् । स्वामिन्! विश्वम्भरामेतां भरताय प्रयच्छ तत् ॥४२६॥ अद्यैव गृह्यतामेषा मद्भूरित्यभिधाय ताम् । सलक्ष्मणं समायातं रामं दशरथोऽवदत् ॥४२७॥ अस्याः सारथ्यतुष्टेन दत्तः पूर्वं मया वरः । सोऽयं भरतराज्येन कैकेय्या याचितोऽधुना ॥ ४२८ ॥ रामोऽपि हृष्टोऽभाषिष्ट मात्रेदं साधु याचितम् । यन्मद्भ्रात्रे भरताय राज्यदानं महौजसे ||४२९ ॥ आपप्रच्छे प्रसादान्मामिदं तातस्तथाऽप्यदः । दुनोति मामविनयसूचनाकारणं जने ॥४३०॥ अप्येकबन्दिने राज्यं तुष्टस्तातो ददात्वदः । निषेधेऽनुमतौ वा मे न स्वाम्यं पत्तिमानिनः || ४३१|| भरतोऽप्यहमेवाऽस्मि निर्विशेषावुभौ तव । अतोऽभिषिच्यतां राज्ये भरतः परया मुदा ॥ ४३२ ॥
(सप्तमं पर्व
इति रामवचः श्रुत्वा भूपतिः प्रीतिविस्मितः । आदिक्षन् मन्त्रिणो यावद् भरतस्तावदब्रवीत् ॥४३३॥ स्वामिन्! सह व्रतादानमादावप्यर्थितं मया । तात! तन्नाऽन्यथा कर्तुं कस्याऽपि वचसाऽर्हसि ॥ ४३४ ॥ राजाऽप्युवाच मा वत्स! मत्प्रतिज्ञां मुधा कुरु । वरो मया हि त्वन्मातुर्दत्तो न्यासीकृतश्चिरम् ॥४३५॥ सोऽद्य ते राज्यदानेन कैकेय्या याचितोऽनघ ! । आज्ञां मम च मातुश्च नाऽन्यथा कर्तुमर्हसि ॥४३६|| रामो भरतमित्यूचे न ते गैर्द्धाऽस्ति यद्यपि । तथाऽपि सत्यापयितुं तातं त्वं राज्यमुद्वह ॥४३७॥
१. ० राजाऽभू० ता. ॥ २. ० स्नेहावबो० ता. ॥ ३.० दुद्धृत्य ला. विना ॥। ४. अनन्तदुःखानि एव उदर्कः परिणामः यस्य तम् ॥ ५. इत्याकर्ण्य खं. १ ।। ६. कुलनन्दनं कुलनन्दनं ता.; सूर्यञ्जयस्य पुत्रं कुलनन्दननामानम् ।। ७. दशरथः ॥ ८. प्रविव्रजिषुरुत्थाय जगाम निजमालयम् हे. छा. पा. मो. ता. खं. २, पाता. ॥ ९. गृहे खं. १ ।। १०. राजा राज्ञी - सुता ऽमात्यानथ दीक्षोत्सुकः स्वयम् खं. १, ला. कां. ला ॥ ११. दत्त आलाप एव सुधारसो येन सः ।। १२. ०दुःखदे कां. ला. खं. १, ला. ॥। १३. संसारवृद्धिः ॥ १४. ध्यात्वाऽब्रवी० मु. खं. २, पाता. हे मो. प्रभृतिषु ॥ १५. सारथित्वस्य कर्मणा - कार्येण ।। १६. ० च्छानुना नित्यं खं. १ ।। १७. सत्यप्रतिज्ञ ! ॥ १८. प्रस्तर: - पाषाण: ।। १९. पृथ्वीं राज्यमित्यर्थः ॥ २०. समाहूय मु. खं. १, ला.प्रभृतिषु ॥ २१. तातो मां प्रसादात् पृच्छति, किन्तु लोके इयं तातकृता पृच्छा ममाऽविनयस्य सूचनां करिष्यति, यद् रामो न विनयी, अतस्तातस्तं पृष्ट्वा भरताय ददाति, एतच्च न युक्तमतो मां दुनोति इत्यर्थः ॥ २२. अप्येकनन्दने पाता. ॥ २३. स्वाम्यं स्वामित्वं, आत्मानं पत्तिं सामान्यसेवकं मन्यते यः सोऽहं तस्य (मम) ॥ २४. गर्द्ध: - आसक्ति:; गर्वोऽस्ति मु. प्रभृतिषु ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org