________________
चतुर्थः सर्गः) त्रिषष्टिशलाकापुरुषचरितम् ।
१७१ अथाऽश्रुभरितदृष्टिर्भरतो गद्गदाक्षरम् । पतित्वा पादयो राममित्युवाच कृताञ्जलिः ॥४३८॥ तातपादार्यपादानां महेच्छानामद: खलु । उचितं ददतां राज्यमाददानस्य मे न तु ॥४३९।। तातस्य सूनुः किं नाऽहं ? किं वा नाऽऽर्यस्य चाऽनुज: ? । सत्यं मातृमुखोऽस्म्येष गर्द्धमेव करोमि चेत् ॥४४०।
रामो राजानमित्यूचे भरतो मयि सत्यसौ। राज्यं नाऽऽदास्यते तस्माद् वनवासाय याम्यहम् ॥४४॥ इत्यनुज्ञाप्य राजानं रामो नत्वा च भक्तितः। भरते च रुदत्युच्चैर्निर्ययौ चाप-तूणभृत् ।।४४२॥ वनवासाय गच्छन्तं दृष्ट्वा दशरथः सुतम् । भूयो भूयो ययौ मूर्छामतुच्छां स्नेहकातरः ॥४४३।। अथाऽपराजितां देवीं नत्वा रामोऽभ्यधादिति । मातर्यथाऽहं तनयो भरतोऽपि तथैव ते॥४४४।। स्वां सत्यापयितुं सन्धां तस्मै राज्यमदात् पिता। मयि सत्येष नाऽऽदत्ते तद् गन्तव्यं मया वने ॥४४५।। तद् दृशा भरतं पश्ये: सविशेषप्रसादया। कदाचिदपि मा भूस्त्वं मद्वियोगेन कातरा ॥४४६।। तामाकर्ण्य गिरं देवी पपात भुवि मूर्च्छिता। चेटीभिश्चन्दनाम्भोभिः सिक्तोत्तस्थावुवाच च ॥४४७॥ आ:! केन जीविताऽस्म्येषा ? मूर्छा हि सुखमृत्यवे। सहिष्ये रामविरहदुःखं जीवन्त्यहं कथम् ? ॥४४८॥ वनं व्रजिष्यति सुत: पतिश्च प्रव्रजिष्यति । श्रुत्वाऽप्येतन्न यद्दीर्णा कौशल्ये! वज्रमय्यसि ॥४४९।। रामो जगाद भूयोऽपि मात:! पत्न्यसि मत्पितुः । तत: किमिदमारब्धं कातरस्त्रीजनोचितम् ? ॥४५०॥ वनान्यटितुमेकाकी याति केसरिणीसुतः । स्वस्था तु केसरिण्यस्ति न ताम्यति मनागपि ॥४५१॥ तातस्य ऋणमस्त्युच्चैः प्रतिपन्नवरो ह्ययम् । अत्र स्थिते च मय्यम्ब! तस्याऽऽनृण्यं भवेत् कथम् ? ॥४५२॥ इत्यादियुक्तिवचनैर्बोधयित्वाऽपराजिताम् । तां नत्वाऽन्याश्च जननीर्निर्ययौ लक्ष्मणाग्रजः ॥४५३॥ पादूराद् दशरथं नत्वा सीतोपेत्याऽपराजिताम् । नत्वा चाऽयाचताऽऽदेशं रामानुगमन प्रति ॥४५४।। ऊचेऽपराजिता देवी क्रोडमारोप्य जानकीम् । बालामिव स्नपयन्ती केवोष्णैर्नयनोदकैः ।।४५५।। वत्से! वत्सो रामभद्रो विनयी पित्रनुज्ञया। वनं प्रयाति तस्यैतन्नृसिंहस्य न दुष्करम् ॥४५६।। देवीव लालिताऽसि त्वमाजन्मोत्तमवाहनैः । सहिष्यसे कथं वत्से! पादचङ्कमणव्यथाम् ? ॥४५७।। तवाऽङ्गं सौकुमार्येण कमलोदरसोदरम्। क्लिष्टं तापादिना कुर्यात् क्लेशं दाशरथेरपि॥४५८॥ स्वभर्तुरनुयानेनाऽनिष्टकष्टागमनेन च । न निषेधं न चाऽनुज्ञां यान्त्यास्ते कर्तुमुत्सहे॥४५९।। सीताऽप्युवाच नि:शोका नमस्कृत्याऽपराजिताम् । दधती प्रोतरुत्फुल्लसरोरुहमिवाऽऽननम् ॥४६०॥ अँधित्वदस्तु मे भक्तिर्नित्यं क्षेमङ्करा पथि । एषाऽहमनुयास्यामि रामं विद्युदिवाऽम्बुदम् ॥४६१॥ इत्युक्त्वा तां पुनर्नत्वा निर्ययौ जनकात्मजा । आत्मानमात्मरामेव ध्यायन्ती लक्ष्मणाग्रजम् ॥४६२।। अहो! अत्यन्तमनया पतिभक्त्याऽद्य जानकी । आद्योदाहरणं जज्ञे पतिदैवतयोषिताम् ॥४६३॥ कष्टादभीता सीतेयं सतीजनमतल्लिका। अहो शीलेन महता पनाति स्वं कुलद्वयम ॥४६४॥ इति व्यावर्णयन्तीभि: शोकगद्गदया गिरा। पौरीभिः कथमप्यैक्षि सीता यान्ती वनं प्रति ॥४६५||त्रिभिर्विशेषकम्।। परामं वनाय निर्यान्तं दृष्ट्वा सपदि लक्ष्मण: । सद्य: सेन्धुक्षितक्रोधवह्निर्दध्याविदं हृदि ॥४६६॥ ऋजुस्तात: प्रकृत्याऽपि प्रकृत्याऽनृजव: स्त्रियः । इयच्चिरं वरं धृत्वा योचते साऽन्यथा कथम् ? ॥४६७|| दत्तमेतावता राज्यं भरताय महीभुजा। अपनीतमृणं स्वस्य गता नश्च पितॄणभीः ।।४६८।। निर्भय: साम्प्रतं हृत्वा भरतात् कुलपांसनात् । न्यस्यामि राज्यं किं रामे विराँमाय निजक्रुधः ? ॥४६९॥ अथवाऽसौ महासत्त्वस्तृणवद् राज्यमुज्झितम् । रामो नाऽऽदास्यते दु:खं तातस्य तु भविष्यति ॥४७०|| १.महाशयानाम् ।। २. 'मावडियो' इति भाषायां, य: सर्वकार्येषु मातरमेव प्रेक्षतेऽनुसरति च ।। ३. गर्वमेवं मु.प्रभृतिषु ।। ४. चापतूणवान् मु.॥५. प्रतिज्ञाम् ।। ६. राज्यं ददौ पिता खं.१, ला. ॥७. वने मया खं.१-२॥ ८. भूश्च ता. ॥ ९. जीवाम्यहं खं.१ ॥१०. सिंहीपुत्रः ।। ११. केसरिण्यास्ते मु.॥ १२. ऋणमत्युच्चैः ता.॥१३. अवस्थिते मो. ॥१४. अङ्कम् ।। १५. ईषदुष्णैः ।।१६. प्रात:काले विकस्वरं कमलमिव ।। १७. त्वयि अधि इति अधित्वत्, तव उपरीत्यर्थः ।। १८. आत्मस्वरूपे एव आरामो यस्याः सा आत्मारामा-आत्मध्यानं कुर्वन्ती योगिनी तद्वत् ।। १९. जाता हे. मो. ता. ॥२०. पतिरेव दैवतं-देवः यासां, तासां नारीणाम् ।। २१. सतीसमूहे प्रशस्या।। २२. श्रुत्वा मुद्रिते; छा. पा. मो. विना सर्वप्रतिष्वपि ।। २३.सन्धुक्षित:-दीप्त: क्रोधवहिर्यस्य सः ॥२४.
कुटिलाः ।।२५. ययाचे खंता.१-२, ला. ॥ २६. पित्वृण० पाता.; पितुः ऋणं, तस्य भी:-भयम् ("ऋतो वा तौ च"सि.१/२/४) ॥ २७. कुलाङ्गारात् ।। Jain EducationR.M. शमनाय” इति ला.टि.॥
For Private & Personal Use Only
www.jainelibrary.org