________________
१७२
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
नमस्कृत्य
तातस्य मा स्म भूद् दुःखं राजाऽस्तु भरतोऽपि हि । अहं त्वनुगमिष्यामि रामपादान् पदातिवत् ॥४७१॥ एवं विचिन्त्य सौमित्रिर्नत्वाऽऽपृच्छ्य च भूपतिम् । ययौ सुमित्रामाप्रष्टुं नत्वा चैवमवोचत ||४७२॥ गमिष्यति वनं रामोऽनुगमिष्यामि तं त्वहम्। मर्यादाब्धिं विना ह्यार्यं न स्थातुं लक्ष्मणः क्षमः ॥४७३ || कथञ्चिद् धैर्यमालम्ब्य सुमित्राऽप्यब्रवीदिदम् । साधु वत्साऽसि मे वत्सो ज्येष्ठं यदनुगच्छसि ॥४७४॥ मां वत्सोऽद्य रामभद्रश्चिरं गतः । अतिदूरे भवति ते मा विलम्बस्व वत्स! तत् ॥ ४७५॥ इदं साध्वम्ब! साध्वम्ब! मदम्बाऽसीत्युदीर्य ताम् । नत्वा च लक्ष्मणोऽगच्छत् प्रणन्तुमपराजिताम् ॥४७६ ॥ तां नत्वोवाच सौमित्रिरार्य एकाक्यगाच्चिरम्। त्वामाप्रष्टुमहं त्वागामार्यानुगमनोत्सुकः ॥ ४७७ ॥ उदश्रुरूचे कौशल्या मन्दभाग्याऽस्मि हा ! हता । वत्स! त्वमपि मां मुक्त्वा प्रस्थितोऽसि वनाय यत् ॥ ४७८ ॥ त्वमेकोऽत्राऽवतिष्ठस्व मा प्रतिष्ठस्व लक्ष्मण ! । ममाऽऽश्वासकृते रामविरहार्दितचेतसः ||४७९|| प्रत्यूचे लक्ष्मणोऽप्येवं माता रामस्य नन्वसि । मातः! कृतमधैर्येणाऽर्हेण सामान्ययोषिताम् ॥४८०॥ दूरे गच्छति मे बन्धुरनुयास्यामि तं द्रुतम् । तद् विघ्नं मा कृथा देवि! रांमनिघ्नः सदाऽप्यहम् ॥४८१ ॥ तामित्युक्त्वा च नत्वा च सौमित्रिरथ सत्वरम् । अनुधाव्याऽगमत् सीता-रामौ कार्मुक-तूणभृत् ॥४८२॥
योsपि निर्ययुः पुर्या विकस्वरमुखाम्बुजाः । विलासोपवनायेव वनवासाय सोद्यमाः ॥ ४८३ ॥ प्राणैरिव विनिर्यद्भिर्मैथिली- राम-लक्ष्मणैः । कष्टां नराश्च नार्यश्च नगर्यां लेभिरे दशाम् ॥ ४८४॥ वेगात् तान्वधावन्ताऽनुरागेण गरीयसा । नागराः क्रूरकैकेयीविध्योराक्रोशदायिनः ॥४८५|| बाष्पायमाणो राजाऽपि सान्तःपुरपरिच्छदः । द्रुतमन्वसरद् राममाकृष्टः स्नेहरज्जुभिः ॥४८६|| द्रुतं राज्ञि जने चाऽपि रामभद्रानुगामिनि । नगर्ययोध्या समभूद्वसेव समन्ततः ॥४८७॥ अथाऽवस्थाय काकुत्स्थः पितरं जननीरपि । न्यवर्तयत् कथमपि गिरा विनयसारया ॥४८८।। तथा यथोचितालापै: पौरानपि विसृज्य सः । सीता - सौमित्रिसहितस्त्वरितत्वरितं ययौ ॥४८९ ॥ ग्रामे ग्रामे ग्रामवृद्धैर्महेभ्यैश्च पुरे पुरे । प्रार्थ्यमानोऽप्यवस्थातुं काकुत्स्थो न ह्यवास्थित ॥४९०॥
इतश्च भरतो राज्ये नाऽऽददे किं तु प्रत्युत । कैकेयीं स्वं च चुक्रोश स्वभ्रातृविरहासहः ॥ ४९१ ॥ परिव्रज्योत्सुको राजा सामन्तान् सचिवानपि । प्राहिणोद् राममानेतुं राज्याय संहलक्ष्मणम् ।।४९२॥ पंश्चिमायायिनं रामं प्रापुत्वरितंमेव ते । निर्वृत्त्यै चाऽभ्यधुर्भक्त्या राजाज्ञाख्यानपूर्वकम् ॥४९३ ।। तैर्दानैः प्रार्थ्यमानोऽपि न न्यवर्तत राघवः । महतां हि प्रतिज्ञातं न चलत्यद्रिपादवत् ॥४९४॥ विसृज्यमाना अपि ते राघवेण मुहुर्मुहुः । सहैव चेलुः सर्वेऽपि कृताशास्तन्निवर्तने ॥४९५।। अथोग्रश्वापदपदं निर्मानुष्यां घनद्रुमाम् । परियात्राटवीं प्रापुर्जानकी - राम-लक्ष्मणाः ||४९६ ॥ अभिधानेन गम्भीरां गम्भीरावर्तभीषणाम् । पृथुप्रवाहां पथि ते समीक्षाञ्चक्रिरे नदीम् ||४९७|| तत्र स्थित्वाऽवदद् रामः सामन्तादीनिदं वचः । इतः स्थानान्निवर्तध्वमध्वा कष्टो ह्यतः परम् ॥ ४९८ ॥ अस्माकं कुशलोदन्तं गत्वा तातस्य शंसत । उपाध्वं भरतं द्वैत् तातवद् वाऽप्यतः परम् ॥४९९ ।। धिगस्मान् रामपादानामयोग्यानिति भूरिशः । ते रुदन्तो न्यवर्तन्त बौष्पाम्भः स्तिमितांशुकाः ॥ ५०० ॥ उत्ततार ततो रामो दुस्तरां तां तरङ्गिणीम् । ससीता-लक्ष्मणः साग्रैः प्रेक्षितस्तैस्तटस्थितैः ॥५०१॥ रामेऽथ दृक्पथातीते सामन्ताद्याः कथञ्चन । अयोध्यानगरीमीयुस्तद् राज्ञे चाऽऽचचक्षिरे ॥५०२॥ राजाऽप्युवाच भरतं नाऽऽयातौ राम-लक्ष्मणौ । राज्यं गृहाण मम तद् दीक्षाविघ्नाय मा स्म भूः ||५०३ || भरतो ऽप्यवदद् राज्यं नाऽऽदास्येऽहं कथञ्चन । आनेष्ये तु स्वयं गत्वा प्रसाद्य निजमग्रजम् ||५०४ ||
(सप्तमं पर्व
१. नन्वहम् ॥ २. “रामवश: " इति ला. टि. ॥। ३. अनुधाव्याऽभ्यगात् खं. १, ला. का. ॥। ४. क्रूराया: कैकेय्याः विधेः - विधातुश्च ॥ ५. उद्वसा निर्जना 'उज्जड' इति भाषायाम् ॥ ६. रामः ॥ ७. ० तस्त्वरितं० ता. ॥ ८. समलक्ष्मणम् खं. १ ।। ९. पश्चिमदिशागामिनम् ॥। १०. ० मेत्य ते ता. ॥। ११. निवर्तनाय ।। १२. प्रतिज्ञा तु मु. ॥ १३. पारियात्रो नाम कुलाचलस्तस्याऽटवीम् । केचित् सौराष्ट्रदेशे प्रसिद्धं 'बरडा' इत्याख्यं गिरिं पारियात्रं वदन्ति (मुद्रिते टि.) ।। १४. सेवध्वम् ।। १५. मद्वत्तातवच्चाप्यतः पाता. ॥। १६. बाष्पाम्भसा - अश्रुजलेन स्तिमितानि - आर्द्राणि अंशुकानि - वस्त्राणि येषां ते ।। १७. साश्रुभिः ।। १८. व्याच० मु. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org