________________
१७३
चतुर्थः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् । आगात् तदा च कैकेयी राजानमिति चाऽब्रवीत्।भरताय त्वया राज्यं दत्तं सत्यप्रतिश्रव! ॥५०५॥ परमेष न गृह्णाति राज्यं ते विनयी सुतः । अन्यासां चाऽस्य मातॄणां महद् दुःखं ममाऽपि च ॥५०६।। अविमृश्यविधायिन्या पापीयस्या मया कृतम् । सति त्वयि सपुत्रेऽपि हहा! राज्यमराजकम् ॥५०७॥ कौशल्याया: सुमित्राया: सुप्रभायाश्च दुःश्रवम् । रुदितं मम शृण्वन्त्या हृदयं भवति द्विधा ॥५०८॥ भरतेन समं गत्वा तौ वत्सौ राम-लक्ष्मणौ । अनुनीय समानेष्याम्यनुजानीहि नाथ! माम् ॥५०९||
अथाऽऽदिष्टा प्रहृष्टेन राज्ञा दशरथेन सा। ययौ सभरतामात्या प्रति रामं कृतत्वरा ॥५१०॥ कैकेयी-भरतौ षड्भिः प्रापतुस्तद् वनं दिनैः । अपश्यतां द्रुमूले च जानकी-राम-लक्ष्मणान् ॥५११।। रथादुत्तीर्य कैकेयी वत्स! वत्सेति भाषिणी। प्रणमन्तं रामभद्रं चुचुम्बोपरि मूर्धनि ।।५१२॥ पादाब्जयोः प्रणमन्तौ वैदेही-लक्ष्मणावपि । आक्रम्योपरि बाहुभ्यां तारतारं रुरोद सा॥५१३|| भरतोऽपि नमश्चक्रे रामपादावुदश्रुदृक् । प्रत्यपद्यत मूर्छा च मूर्च्छत्खेदमहाविषः ॥५१४॥ बोधितो रामभद्रेण विनयी भरतोऽवदत् । अभक्तमिव मां त्यक्त्वा कथमत्र त्वमागम: ? ॥५१५।। राज्यार्थी भरत इति मातृदोषेण योऽभवत् । ममाऽपवादो हर तमात्मना सह मां नयन् ॥५१६।। निवृत्य यद् वाऽयोध्यायां गत्वा राज्यश्रियं श्रय । कौलीनशल्यं मे भ्रातरेवमप्यपयास्यति ॥५१७|| जगन्मित्रं हि सौमित्रिस्तवाऽमात्यो भविष्यति । अयं जनः प्रतीहार: शत्रुघ्नस्त्वातपत्रभृत् ।।५१८॥ एवं ब्रुवाणे भरते कैकेय्यप्यब्रवीदिदम् । कुरु भ्रातृवचो वत्स! सदाऽसि भ्रातृवत्सलः ॥५१९।। अत्र न त्वत्पितुर्दोषो न दोषो भरतस्य च। कैकेय्या एव दोषोऽयं सुलभ: स्त्रीस्वभावतः॥५२०|| कौलट्यवर्जा ये केऽपि दोषा: स्त्रीणां पृथक् पृथक् । ते सर्वे कृतसंस्थाना मयि दोषखनाविव ॥५२१।। पत्युः सुतानां तन्मातृजनस्य च मया कृतम् । इदं दु:खाकरं कर्म तत् सहस्व सुतोऽसि यत् ॥५२२।। इत्यादि साश्रु जल्पन्तीं तामूचे लक्ष्मणाग्रजः । तातस्य सूनुर्भूत्वाऽहं प्रतिज्ञातं त्यजामि किम् ? ॥५२३।। तातेन दत्तमेतस्मै राज्यं ह्यनुमतं मया। अस्त्वन्यथा कथङ्कारं वाग् द्वयोर्जीवतोरपि ? ॥५२४।। तदस्तु भरतो राजा द्वयोरपि निदेशत: । अस्याऽस्म्यहमनुल्लङ्घयो मम तात इवाऽम्बिके! ॥५२५॥ इत्युक्त्वोत्थाय काकुत्स्थ: सीतानीतजलैः स्वयम् । राज्येऽभिषिञ्च भरतं सर्वसामन्तसाक्षिकम् ॥५२६।। राम: प्रणम्य कैकेयी सम्भाष्य भरतं तथा। विससर्ज प्रतस्थे च केकुभं दक्षिणां प्रति ।।५२७|| ययावयोध्यां भरतस्तत्र चाऽखण्डशासनः । ऊरीचक्रे राज्यभारं पितुर्धातुश्च शासनात् ॥५२८॥ "महामुनेः सत्यभूते: पार्श्वे दशरथोऽप्यथ। भूयसा परिवारेण समं दीक्षामुपाददे ॥५२९|| स्वभ्रातृवनवासेन भरत: शल्यितो हृदि । अर्हत्पूजोद्यतोऽरक्षद् राज्यं यामिकवत् सुधीः ।।५३०॥
सौमित्रि-मैथिलसुतासहितोऽथ रामो गच्छन्नतीत्य गिरिमध्वनि चित्रकूटम् । आसादयत् कतिपयैर्दिवसैरवन्तिदेशैकदेशमर्वनिस्थितदेवदेश्यः ॥५३१।।
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये सप्तमे पर्वणि
राम-लक्ष्मणोत्पत्ति-परिणयन-वनवासगमनो नाम चतुर्थः सर्गः।।
१. चाऽपि ता. ।। २. मूर्च्छत् व्याप्तीभवत् खेद एव महाविषं यस्य सः; "प्रसरत्" इति ला.टि. ॥३. त्वमागतः खं.१, ता. ।। ४. ममाऽपवादं पाता.॥५. कौलीनं-लोकापवादः, तदेव शल्यम् ।। ६. भरतः ॥७. मातृवत्सलः मु.॥ ८. "असतीत्व" इति ला.टि.; असतीत्वं मुक्त्वाऽन्ये सर्वेऽपि स्त्रीसुलभा दोषा: मयि सन्तीत्याशयः ।। ९. दोषाणां खनि:-आकरस्तत्रेव ॥१०. अन्यथा स्यात् हे. ॥११. दिशाम् ॥१२. सुभ्रातृ० हे. मो. पा. छा. ला.प्रभृतिषु ।। १३. अवन्यां स्थितो देव इव ॥१४. सप्तमपर्वणि खं.१-२॥१५. वनगमनो ता. ॥१६. चतुर्थसर्गः पाता. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org