________________
चतुर्थः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् । एवंमनोरथो राजा विषयेभ्य: पराङ्मुखः । कमप्यनैषीत् समयं भववैराग्यतन्मयः ॥३७१।। पातस्यां नगर्यामन्येाश्चतुर्ज्ञानी महामुनिः । सत्यभूतिरिति सङ्घप्रावृत: समवासरत् ॥३७२।। सपुत्रादिपरीवारो राजा दशरथोऽपि तम् । गत्वा ववन्दे शुश्रूषुर्देशनां निषसाद च ॥३७३।। तदानीमेव वैताढ्यगिरेश्चन्द्रगतिर्नुप: । सीताभिलाषसन्तप्तभामण्डलसमन्वितः ॥३७४॥ विद्याधरेन्द्रैरन्वीतो रथावर्ताचलेऽर्हतः । वन्दित्वा विनिवृत्त: संस्तत्राऽऽयातो नभ:स्थितः ॥३७५॥युग्मम्।। तं मुनिं समवसृतं वीक्षाञ्चक्रेऽवतीर्य च । ववन्देऽथाग्रतो धर्मं शुश्रूषुर्निषसाद च ॥३७६।। सीताभिलाषजं तापं ज्ञात्वा भामण्डलस्य तु । सत्यभूति: सत्यवादी सूरिः प्रस्तुत्य देशनाम् ॥३७७।। चन्द्रगति-पुष्पवत्यो: सभामण्डल-सीतयोः । समाचख्यौ पूर्वभवांस्तेषां पापानिवृत्तये ॥३७८॥युग्मम्।। सीता-भामण्डलयोश्च भवेऽस्मिन् युग्मजातताम् । भामण्डलापहारं च यथावदवदन्मुनिः ।।३७९।। भामण्डलकुमारोऽपि तदाकर्ण्य मुनेर्वच: । सञ्जातजातिस्मरणो मूर्च्छितो न्यपतद् भुवि॥३८०॥ भामण्डलो लब्धसञ: कथितं सत्यभूतिना । स्वपूर्वभववृत्तान्तं शशंस स्वयमप्यथ ॥३८१॥ ययुः परमसंवेगं चन्द्रगत्यादयोऽप्यथ । स्वसेति सीतां च नमश्चक्रे भामण्डल: सुधीः ॥३८२।। जातमात्रो योऽपजहे सोऽयं मम सहोदरः । इति हृष्टाऽऽशिषं तस्मै ददौ सीता महासती ॥३८३।। नमश्चकार रामं च ललाटस्पृष्टभूतल: । भामण्डलो विनयवान् सद्यः सञ्जातसौहृदः ।। ३८४।। समं विदेहया देव्या जनकं भूपतिं ततः। तत्राऽऽनैषीच्चन्द्रगतिः प्रेष्य विद्याधरोत्तमान् ।।३८५।। जातमात्रापहारादिवृत्तान्ताख्यानपूर्वकम् । भामण्डल: सुतस्तेऽसाविति तस्मै शशंस च ॥३८६॥ जहर्ष वचसा तेन स्तनितेनेव बर्हिणः । जनको जननी सा च विदेहा स्तन्यमक्षरत् ॥३८७।। भामण्डलो नमश्चक्रे पितरावुपलक्ष्य तौ। चुम्ब्यमानो मूर्ध्नि ताभ्यां स्नप्यमानोऽश्रुवारिभिः ॥३८८॥ अथ चन्द्रगती राज्यं न्यस्य भामण्डले सुते । भवोद्विग्नः प्रवव्राज सत्यभूतिमुनेः पुरः॥३८९॥ सत्यभूतिं चन्द्रगतिं पितरावर्नरण्यजम् । सीता-रामौ च नत्वाऽगानिजं भामण्डल: पुरम् ।।३९०॥ सत्यभूतिं महर्षिं तं नत्वा दशरथो नृपः । अपृच्छदात्मन: पूर्वभवानाख्यन् मुनिश्च सः॥३९१॥
सेनापुरे त्वं वणिजो भावनस्य महात्मनः । पत्न्यामभूद्दीपिकायामुपास्तिर्नाम कन्यका ॥३९२॥ साधूनां प्रत्यनीका सा भूत्वा तत्र भवे चिरम् । परिबभ्राम कष्टासु तिर्यगादिषु योनिषु ॥३९३॥ तज्जीवस्त्वं भवं भ्रान्त्वा पुरे चन्द्रपुरे तत: । धनस्याऽभूत् सुत: पत्न्यां सुन्दयाँ वरुणाभिधः ॥३९४।। तदोदार: प्रकृत्या त्वं साधुभ्य: श्रद्धयाऽधिकम् । निरन्तरमदा दानं कालधर्ममथाऽऽसदः ॥३९५।। द्वीपेऽथ धातकीखण्डे युग्म्युत्तरकुरुष्वभूः। मृत्वा चाऽगा देवभूयं परिच्युत्य ततोऽपि हि ॥३९६।। विजये पुष्कलावत्यां पुष्कलायां च पुर्यभूः । नन्दिघोषनृप-पृथ्वीदेव्योस्तुङ्नन्दिवर्धनः ॥३९७॥युग्मम्।। नन्दिघोषः सुतं राज्ये न्यस्य त्वां नन्दिवर्धनम् । यशोधरान्मुनेरात्तदीक्षो ग्रैवेयके ययौ ॥३९८॥ श्रावकत्वं पालयित्वा त्वं मृत्वा नन्दिवर्धनः । त्रिदशो ब्रह्मलोकेऽभूः परिच्युत्य ततोऽपि हि ॥३९९॥ प्रत्यग्विदेहे वैताढ्ये चोत्तरश्रेणिभूषणे । पुरे शशिपुरे रत्नमालिन: खेचरेशितुः ।।४००। विद्युल्लताभिधानायां सधर्मिण्यां महाभुजः । सूनुः सूर्यञ्जय इति नाम्ना त्वं तनयोऽभवः ॥४०१॥त्रिभिर्विशेषकम्।। पाअन्यदा रत्नमाली स दृप्तं विद्याधरेश्वरम् । विजेतुं वज्रनयनं पुरं सिंहपुरं ययौ॥४०२॥ स ज्वालयितुमारेभे पुरं सिंहपुरं ततः। सबालवृद्धं सस्त्रैणं सपशूपवनं हठात् ।।४०३॥ अभिधानेनोपमन्योः पूर्वजन्मपुरोधसः। जीवो देवः सहस्रारात् तं तदैत्यैवमब्रवीत् ॥४०४।। भो भो! महानुभावैवं मा कृथा: पापमुत्कटम् । त्वं भूरिनन्दनो नाम राजाऽभूः पूर्वजन्मनि ॥४०५।। १. भवे वै० मु. छा. पा. मो. कां.प्रभृतिषु ॥ २. खंता. ला. पाता. प्रतिषु न ।। ३. ३७६समनन्तरं “ त्रिभिर्विशेषकम्” इति खंता. पाता. ला. प्रतिषु ॥ ४. कथित: पाता.॥५.०मप्यदः खं.२।। ६. जीमूतेनेव खं.२; मेघगर्जितेनेव मयूराः ॥७. स्तनमण्डलाद् दुग्धम् ।। ८. लक्षितौ छा. पा. मो. ॥९. स्नाप्य० मु.॥ १०.०भूतेमुने: ता. ॥ ११. पितरौ-जनक-विदेहे ।। १२. दशरथम् ॥१३. आपृच्छतात्मन: ता. ।।१४. पूर्व भवमा० ता. ॥१५. द्वेषिणी ॥१६. कष्टात्तु मु.॥१७. द्रङ्गपुरे ला. छा. पा. ।। १८. देवत्वम् ।। १९. पुत्रः ।। २०. यशोधरमुने० मु. ।। २१. पश्चिमविदेहे ।। २२. खंता. ला. पाता.प्रतिषु न ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org