________________
१६८
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व आरोपयति यः कश्चिदनयोश्चापदण्डयोः । अप्येकतरमद्यैव स उद्वहतु नः सुताम् ।।३३८॥ एकैकशोऽथ दोष्मन्त: खेचरा भूभुजोऽपि च । उपधन्वं समाजग्मुस्तदारोपणकाम्यया ॥३३९।। वेष्टिते पन्नगै रौद्रैश्चापे ते तीव्रतेजसी। नाऽलं बभूवुस्ते स्प्रष्टुमप्यादातुं तु का कथा ? ॥३४०॥ धनु:स्फुलिङ्गज्वालाभिर्निर्यान्तीभिरनेकशः । प्लुष्यमाणा निवृत्त्येयुस्तेऽन्यतोऽधोमुखा ह्रिया ॥३४१।।
अथ दाशरथी रामश्चलत्काञ्चनकुण्डलः । गजेन्द्रलीलागमनश्चापोपान्तमुपासरत् ॥३४२॥ वीक्ष्यमाणः सोपहासं चन्द्रगत्यादिभिर्नृपः । जनकेन च साशत निःशङ्को लक्ष्मणाग्रजः ॥३४३।। वज्रमिव वज्रपाणिर्वज्रावर्तं महाधनः । शान्तोरगानलं सद्यः परिपस्पर्श पाणिना ॥३४४॥युग्मम्।। स्थापयित्वाऽध्यय:पीठं नामयित्वा च वेत्रवत् । अधिज्यं विदधे धन्व तद् रामो धन्विनां वरः ।।३४५।। आकर्णान्तं तदाकृष्य रोद:कुक्षिम्भरिध्वनि। धनुरास्फालयामास स्वयश:पटहोपमम् ॥३४६।। स्वयंवरमजं रामे स्वयं चिक्षेप मैथिली। चापाच्चोत्तारयामास रामभद्रोऽपि शिञ्जिनीम् ॥३४७।। लक्ष्मणोऽप्यर्णवावर्त कार्मुकं रामशासनात्। अधिज्यं विदधे सद्य: प्रेक्षितो विस्मितैर्जनैः ॥३४८।। आस्फालयच्च तन्नादबधिरीकृतदिङ्मुखम् । उत्तार्य मौर्वी सौमित्रिः पुन: स्थाने मुमोच च ॥३४९।। ददुः सौमित्रये विद्याधराश्चकितविस्मिता: । अष्टादश निजा: कन्या: सुरकन्या इवाऽद्भुताः ।।३५०।। विलक्षाश्चन्द्रगत्याद्यास्ताम्यद्भामण्डलान्विताः । विद्याधरेन्द्राः प्रययुः पुरं निजनिजं ततः ॥३५१।। अथ मैथिलसन्देशादागाद् दशरथो द्रुतम् । महोत्सवेन जज्ञे च विवाहो राम-सीतयोः ॥३५२॥ तदा च जनकभ्राता कनकोऽपि निजां सुताम् । भरताय ददौ भद्रां सुप्रभाकुक्षिसम्भवाम् ॥३५३।। समं सुतैः स्नुषाभिश्च राजा दशरथोऽपि हि। ययावयोध्यां नगरी नागरैः प्रकृतोत्सवाम् ॥३५४।। पाअपरेधुर्दशरथो राजा चैत्यमहोत्सवम् । ऋद्ध्या महत्या विदधे शान्तिस्नात्रं चकार च ।।३५५।। स्नात्राम्भ: सौविदल्लेन महिष्यै प्रथमं तदा। पश्चात् त्वपरपत्नीभ्यो दासीभिः प्राहिणोन्नृपः॥३५६।। यौवनाच्छीघ्रगामिन्यो दास्यः प्रथममेव ता: । राजीनामार्पयन् स्नात्रपयस्ताश्च ववन्दिरे ॥३५७।। वृद्धत्वात् सौविदले तु शनिवन्मन्दगामिनि। असम्प्राप्तस्नात्रजला महादेवीत्यचिन्तयत॥३५८॥ सर्वासामेव राज्ञीनां जिनेन्द्रस्नात्रवारिणा । प्रसादो विदधे राज्ञा महिष्या अपि मे न हि॥३५९।। तत् कृतं मन्दभाग्याया जीवितेनाऽप्यतो मम । ध्वस्ते माने हि दु:खाय जीवितं मरणादपि ॥३६०।। विमृश्येति प्रविश्याऽन्तर्मरणे कृतनिश्चया। वस्त्रेणोद्वन्द्धमात्मानमारेभे सा मनस्विनी ॥३६१।। तदैवाऽऽगान्नरेन्द्रस्तां तदवस्थां ददर्श च । तन्मृत्युभीत: स्वोत्सङ्गे निवेश्यैवमुवाच च ॥३६२।। कुतोऽपमानादारब्धं दुःसाहसमिदं त्वया ? । किं नाम दैवाद् विदधे मया काऽप्यवमानना ? ॥३६३।। साऽपि गद्गदवागूचे जिनस्नात्रपय: पृथक् । सर्वासां प्रैषि राजीनां भवता न पुनर्मम ॥३६४।। इत्यवोचत सा यावत् तावदागाच्च कञ्चुकी। राज्ञाऽर्हत्स्नात्रवारीदं प्रस्थापितमिति ब्रुवन् ॥३६५। सोऽभ्यषिञ्चच्च तां मूर्ध्नि तेन पुण्येन वारिणा। विलम्बेन किमागास्त्वं ? राज्ञा चैवमपृच्छ्यत ॥३६६।। कञ्चुक्यपि जगादैव वार्द्धकं मेऽपराध्यति। सर्वकार्याक्षमं स्वामिन्! मां पश्य स्वयमप्यमुम् ॥३६७।। ततो मुमूर्षुमिव तं प्रस्खलन्तं पदे पदे । घण्टान्तालिकालोलदशनं वैलिभाजनम्॥३६८।। श्वेतसर्वाङ्गरोमाणं धूलोमच्छन्नलोचनम् । शुष्कमांसासृजं प्रोदुःस्नसं सर्वाङ्गवेपथुम् ॥३६९।। विलोक्याऽचिन्तय राजा स्मो यावन्नेदृशा वयम् । चतुर्थपुरुषार्थाय तावद्धि प्रयतामहे ॥३७०॥त्रिभिर्विशेषकम्।। १. उपधन्व खंता.१-२, पाता. ता.; “नपुंसकाद् वा"(सि.७/३/८९) इति सूत्रेण सिध्यति द्वयमपि ॥ २.०स्पष्टुं मप्यादातुं रसंपा.; "स्पृशादिसृपो वा" (सि.४/४/११२) इति द्वितयमपि साध्यम् ।। ३. “दह्यमानाः" ला.टि. ॥४.०श्चलकाश्चन० खंता.१॥५. स्थापयित्वाऽध्यपीठं च खंता.१; लोहपीठोपरि ।। ६. “धन्वन्" ला.टि. ॥७. भूम्यन्तरीक्षयो: मध्यभागपूरको ध्वनिर्यस्य तत् ।। ८. धनुरास्फालयद् राम: ला. पा. छा. हे. मो. ।। ९. प्रत्यञ्चाम् (दोरी)॥१०. पुत्री: हे. ॥११. ०द्या भ्राम्यद्भामण्डला ला. छा. पा. ॥ १२. पुत्रवधूभिः ।।१३. स्नात्राम्बु पाता. ॥ १४. कञ्चुकिना॥१५. पत्नीनामपरासांतु ला, ला. ॥१६. विहितो खंता.१, पाता. हे. मो. ता. ।। १७. वस्त्रेण बन्धु० ता.; वस्त्रेणोद्बद्धु० कां. ला. मु.; वस्त्रेण बद्ध० मो. ।। १८. पवित्रेण ॥१९. वृद्धावस्था ।। २०. घण्टाया अन्तर्या लालिका-लोलकं तद्वत् लोलाश्चपला दशना-दन्ता यस्य सः, तम् ॥ २१. वलि:-'करचली' इति भाषा ।। २२.
प्रादुर्भूतसर्वा० मु. ॥ २३. खंता. पाता. ला. प्रतिषु न ।। Jain Education International
For Private & Personal Use Only
www.jainelibrary.org