________________
चतुर्थ: सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् । ऊचर्वयस्या अथ भामण्डलस्याऽर्तिकारणम् । कामनां नारदानीतपटालिखितयोषिति ।।३०४।। वेश्मन्यानीय भक्त्याऽऽशु नारदं राजपुङ्गवः । का सा कस्यात्मजेत्यादि पप्रच्छ पैटयोषितः॥३०५।। आचख्यौ नारदोऽप्येवं विदेहा-जनकात्मजा। नामधेयेन सीता सा या मया दर्शिता पटे ॥३०६।। यादृशी साऽस्ति रूपेण लिखितुं तादृशीं पुन: । नाऽभिज्ञोऽहं न चाऽन्यो वा मूर्त्या लोकोत्तरैव सा॥३०७।। नाऽमरीषु न नागीषु न गन्धर्वीषु तादृशम् । सीताया यादृशं रूपं का कथा मानुषीषु तु ? ॥३०८॥ तादृग् रूपं यथावस्थं विकर्तुं नेश्वराः सुराः । नाऽनुकर्तुं सुरनटा न च कर्तुं प्रजापतिः ॥३०९।। तस्या मधुरता काचिदाकृतौ वचनेऽपि च । कण्ठे च पाणिपादे च रक्तता काचिदुच्चकैः ॥३१०॥ अथवा तां यथावस्थां यथा नाऽऽलेखितुं क्षमः । नाऽलं तथा वक्तुमपि वच्म्यत: परमार्थतः ॥३११॥ योग्या भामण्डलस्येति विचार्य मनसा मया। यथाप्रज्ञं समालिख्य दर्शितेयं पटे नृप! ॥३१२।। भविष्यति तवैवैषा पत्नी खिद्यस्व मा ततः । इत्याश्वास्य सुतं राजा व्यसृजन्नारद मुनिम् ॥३१३।। पाततश्च चपलगतिं नाम विद्याधरं नृपः । इत्यादिदेश जनकमपहत्याऽऽनय द्रुतम् ॥३१४॥ रजन्यां जनकं हृत्वाऽनुपलक्षित एव सः । समानीयाऽर्पयामास राज्ञश्चन्द्रगतेरथ ॥३१५।। जनकं बन्धुवत् स्नेहाद् रथनूपुरपार्थिवः । समाश्लिष्याऽऽसयित्वा स ससौहार्दमदोऽवदत् ॥३१६।। लोकोत्तरगुणा पुत्री तव सीतेति विद्यते । भामण्डलश्च मे सूनुरनूनो रूपसम्पदा ॥३१७।। द्वयोर्वधू-वरत्वेन संयोगोऽस्तूचितोऽधुना। सम्बन्धादावयोश्चाऽपि मिथो भवतु सौहृदम् ॥३१८॥ इत्यूचे जनको दत्ता रामाय स्वसुता मया । कथमन्यस्य यच्छामि दीयन्ते कन्यका: सकृत् ॥३१९।। अथ चन्द्रगतिः प्रोचे स्नेहवृद्धिकृते मया। आनीय याचितोऽसि त्वं तां क्षमो हर्तुमप्यहम् ।।३२०॥ यद्यपि स्वसुता सीता त्वया रामाय कल्पिता । तथाऽपि न: पराजित्य रामस्तां परिणेष्यति ॥३२१॥ वज्रावर्ता-ऽर्णवावर्ते धनुषी देवताज्ञया। सदा यक्षसहस्राधिष्ठिते दु:सहतेजसी ॥३२२॥ पूज्ये ते न: सदा गोत्रदेवतावनिकेतने। कृते भविष्यतो राम-शाह्मिणोस्तद् गृहाण ते ॥३२३॥ आभ्यामारोपयत्येकमपि दाशरथिः सचेत । वयं जितास्तदा तेन से उद्वहतु ते सुताम् ॥३२४।। प्रतिज्ञामित्यनुग्राह्य बलादपि हि मैथिलम् । मिथिलायामनैषीच्च चापे ते च सनन्दनः ॥३२५।। मुमोच जनकं राजौकसि चन्द्रगतिर्नृपः । स्वयं तु सपरीवारोऽवात्सीत् पुर्या बहिर्भुवि ।।३२६।। पआचख्यौ जनकस्तच्च वृत्तं निशि तदैव हि । महादेव्या विदेहाया: सद्यो हृदयशल्यदम् ॥३२७।। विदेहाऽपि रुरोदैवं रे दैवाऽत्यन्तनिघृण! । पुत्रं हृत्वा न मे तृप्त: पुत्रीमपि हरिष्यसि ? ॥३२८॥ स्वेच्छयैव वरादानं लोके न हि परेच्छया। परेच्छया वरादानं दैवादापतितं मम ॥३२९|| परेच्छया प्रतिज्ञातं कोदण्डारोपणं यदि । कुर्यान्न रामोऽन्यः कुर्यात् तदाऽनिष्टो वरो भवेत् ॥३३०।। अथेत्थं जनकोऽवोचमा भैषीरेष राघवः । दृष्टसारो मया देवि! लतावत् तस्य तद् धनुः ॥३३१।। विदेहामिति सम्बोध्य प्रभाते जनकोऽमुचत । अर्चित्वा चापरत्ने ते मण्डपे मञ्चमण्डिते ॥३३२॥ सीतास्वयंवरायाऽथ विद्याधर-नरेश्वराः । तत्रैत्य जनकाहूता अधिमञ्चमुपाविशन् ॥३३३।।
तत: सखीपरिवृता दिव्यालङ्कारधारिणी। भूचारिणीव त्रिदेशी तत्रोपेयाय जानकी॥३३४।। तत्र कृत्वा धनु:पूजां रामं मनसिकृत्य च । अतिष्ठज्जानकी तत्र जननेत्रसुधासरित् ।।३३५॥ नारदोदितसंवादिसीतारूपेक्षणात् तदा। भामण्डलकुमारस्य मारोऽभून्मारणात्मकः ॥३३६।। अथोचे जनकद्वा:स्थो भो भो: सर्वेऽपि खेचरा:! । महीचराश्च राजानो! जनकोऽयं वदत्यदः ॥३३७।। १. पटयोषिति ला. मो. ॥ २. सर्वप्रतिषु मानवीषु इति पाठः समस्ति ।। ३. नाऽऽलिखितुं खंता.१, ला. ।। ४. सीताम् ।। ५. समुद्बहतु हे. ला. ।। ६. प्रतिज्ञामिति सङ्ग्राह्य पाता. हे. मो.; प्रतिज्ञामित्यनुज्ञाप्य खंता.१-२, रसंपा. ॥ ७. ससूनुक: खंता.१, ला.; सपुत्रः ।। ८. तत्रैयुः पाता. ॥ ९. देवाङ्गना ॥१०. मारकात्मकः मु.प्रभृतिषु ।। ११. जनको वो० खंता.१-२, ला.; जनकोऽवोचदित्यदः ला. पा. छा. ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org