________________
१६६ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व 'इदानीमातरङ्गस्तैः परितः परिवारितः। अक्षय्याक्षौहिणीनाथैरभाश्रीजनकक्षितिम् ॥२६९॥ प्रतिस्थानं च चैत्यानि बभञ्जुस्ते दुराशयाः । तेषां ह्याजन्म सम्पद्भ्योऽप्यभीष्टो धर्मविप्लवः ॥२७०।। अनारतमभीष्टस्य धर्मस्य जनकस्य च। तत् कुरुष्व परित्राणं प्राणभूतस्तयोरसि ॥२७१।। आकर्यैवं दशरथो यात्राभेरीमवादयत्। सन्तः सतां परित्राणे विलम्बन्ते न जातुचित् ॥२७२।। रामोऽथोचे दशरथं म्लेच्छोच्छेदाय चेत् स्वयम् । तातो यास्यति तदु राम: सानुजः किं करिष्यति ? ॥२७३।। पत्रस्नेहाच्च तातेनाऽक्षमो वा तर्कितोऽस्म्यहम् । आ भरताज्जन्मसिद्धं नन्विक्ष्वाकुषु पौरुषम् ।।२७४॥ प्रसीद विरम म्लेच्छानुच्छेत्तुं मां समादिश। अचिराच्छ्रोष्यसि स्वामिन्! जयवार्ता स्वजन्मनः ॥२७५।। पाइत्थं कथञ्चिद् राजानमनुज्ञाप्य सहानुजः । सेनापरिवृतो रामो जगाम मिथिलां पुरीम् ।।२७६॥ चमूरु-द्वीपि-शार्दूल-सिंहानिव महावने । पुरीपरिसरेऽद्राक्षीद् रामो म्लेच्छमहाभटान् ।।२७७।। रणकण्डूलदोर्दण्डा म्लेच्छास्ते जितकाशिनः । रामं द्रुतमुपद्रोतुं प्रावर्तन्त महौजसः ।।२७८॥ युगपद् रामसैन्यं तैरस्त्रैरन्धीकृतं क्षणात्। महावातैरिवोद्भ्रान्तैर्जगदुत्क्षिप्तरेणुभिः ॥२७९।। जितमानिषु सैन्येषु परेषु जयमानिषु । मृतमानिनि जनके लोके संहृतमानिनि ॥२८०॥ रामो हसितमानी स्वमधिज्यं विदधे धनुः । अवादयच्च तन्मौर्वी रणनाटकडिण्डिमम् ॥२८१।।युग्मम्।। भ्रूभङ्गमप्यकुर्वाणो गीर्वाण इव भूगत: । रामस्तान् कोटिशोऽप्यस्वैर्विव्याध व्याधवन्मृगान् ।।२८२।। अयं वराको जनकस्तत्सैन्यं मशकोपमम् । तत्साहाय्यागतं सैन्यं दैन्यमागादितोऽप्यभूत् ॥२८३॥ अरे! कुत इमे बाणाश्छादयन्तो नभस्तलम् । पक्षिराजा इवाऽऽयान्तीत्यन्योऽन्यमभिभाषिणः ।।२८४।। आतरङ्गादयो म्लेच्छाधिपा: कुपितविस्मिताः । वर्षन्तोऽस्त्राणि युगपत् प्रतिरामं डुढौकिरे ॥२८५|युग्मम्।। दूरापाती दृढाघाती शीघ्रवेधी च राघवः । तान् म्लेच्छान् हेलयाऽभाकीच्छरभ: कुञ्जरानिव ॥२८६।। म्लेच्छा: प्रणश्य ते जग्मुः काका इव दिशोदिशम् । बभूव स्वस्थो जनको जनैर्जानपदैः समम् ।।२८७।। हृष्टोऽथ स्वसुतां सीतां रामाय जनको ददौ । द्वयं रामागमात् तस्य वरप्राप्तिर्जयोऽप्यभूत् ॥२८८।। तदा च जानकीरूपं जनादाकर्ण्य नारदः । तत्राऽगात् कौतुकाद् द्रष्टुं कन्यावेश्म विवेश च ।।२८९।। पिङ्गकेशं पिङ्गनेत्रं तुन्दिलं छत्रिकाधरम् । दण्डपाणिं सकौपीनमपीनाङ्गं स्फुरच्छिखम् ॥२९०।। भीषणं नारदं प्रेक्ष्य भीता सीता सेवेपथुः । हा मातरित्यारटन्ती गर्भागारान्तरेऽविशत् ।।२९१॥युग्मम्।। कण्ठे शिखायां बाह्वोश्च धुत्वा तुमुलकारिभिः । दासिका-द्वारपालाद्यै रुरुधे नारदस्ततः ॥२९२।। तेषां कलकलादेयुः शस्त्रिणो राजपूरुषाः । यमदूता इव क्रुद्धा हतैनमिति भाषिणः ॥२९३॥ क्षभितो नारदस्तेभ्य: स्वं विमोच्य कथञ्चन । ययावुत्पत्य वैताढ्यं तत्र चैवमचिन्तयत् ॥२९४॥ व्याघ्रीभ्य इव गौर्जीवन् दासीभ्यो निरगामहम् । दिष्ट्या प्राप्तोऽस्मि वैताढ्यं बहुविद्याधरेश्वरम् ॥२९५।।
अस्तीह दक्षिणश्रेणौ चन्द्रगत्यात्मजो युवा । भामण्डलो नाम दोष्मानाखण्डलपराक्रमः ॥२९६।। पटे लिखित्वा तत् सीतां दर्शयाम्यस्य येन ताम् । हठादपहरत्येष कृते प्रतिकरोम्यदः ।।२९७।। तथैव नारदः कृत्वा सीतारूपमदर्शयत् । भामण्डलकुमारस्याऽदृष्टपूर्वं जगत्त्रये ॥२९८॥ सद्यो भामण्डलो भूतेनेवाऽऽक्रामि मनोभुवा । लेभे न जातुचिन्निद्रां विन्ध्याकृष्ट इव द्विपः ॥२९९॥ बुभुजे न हि भोज्यानि पेयान्यपि पपौ न स: । अवतस्थे च मौनेन योगीव ध्यानतत्परः ॥३००।। तं तथा विधुरं प्रेक्ष्याऽवोचच्चन्द्रगतिपः । किमाधिर्बाधते कोऽपि त्वामथ व्याधिरुद्धत: ॥३०॥ किमाज्ञाखण्डनं केनाऽप्यकारि भवतोऽथवा ? । अन्यद्वा ब्रूहि हे वत्स! यत् ते दुःखस्य कारणम् ॥३०२।। भामण्डलकुमारोऽभूद्भिया द्वेधाऽप्यवाङ्मुखः । गुरूणां तादृगाख्यातुं कुलीना: कथमीशते ? ॥३०३।। १. इदानीमातरजाद्यो खंता.१॥२. "मृगभेदः" ला.टि. ।। ३. “जितसङ्ग्रामाः" ला.टि. ॥४. आत्मानं जितं मन्यन्ते तेषु ।। ५. शत्रुषु ।। ६. आत्मानं मृतं मन्यमाने ।। ७. आत्मानं संहृतं(हतं) मन्यमाने ।। ८. आत्मानं हसितं (जयाशया) मन्यमानः ।। ९. दूरादापततीति ॥ १०. दृढापाती खंता.२, पाता. ।। ११. सुस्थो रसंपा. ।। १२. बृहदुदरम् ।। १३. सकम्पा ।। १४. अपवरकान्तरे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org