________________
चतुर्थः सर्गः) त्रिषष्टिशलाकापुरुषचरितम्।
१६५ पितृराज्याय स भ्राम्यन् महीं कुण्डलमण्डितः । मुनिचन्द्रान्मुनेधर्ममाकर्ण्य श्रावकोऽभवत् ।।२३४।।
च्छुरेव मृत्वा स मिथिलायां महापुरि । गर्भे जनकभार्याया विदेहाया: सुतोऽभवत् ॥२३५॥ सरसाऽपि भवं भ्रान्त्वा पुरोहितसुताऽभवत् । नाम्ना वेगवती तत्र प्रव्रज्य च विपद्य च ॥२३६।। ब्रह्मलोकेऽगमच्च्युत्वा विदेहायास्तदोदरे। कुण्डलमण्डितजीवयुग्मत्वेन सुताऽभवत् ।।२३७।। विदेहा समयेऽसूत युगपत् पुत्र-कन्यके । मृत्वा तदा पिङ्गलर्षि: सौधर्मे त्रिदशोऽभवत् ॥२३८।। प्राग्जन्माऽवधिनाऽपश्यद् द्विषं कुण्डलमण्डितम् । तदा जनकपुत्रत्वेनोत्पन्नं स उदैक्षत ॥२३९॥ स प्राग्वैराज्जातरोषो जातमात्रं जहार तम् । दध्यौ च किं निहन्म्येनमास्फाल्याऽऽशु शिलातले ? ॥२४०॥ अथवा यद् भवे पूर्वे दुष्कर्माऽऽचरितं मया । फलं तस्याऽपि भूयस्सु भवेष्वन्वभवं चिरम् ।।२४१॥ दैवाच्छामण्यमासाद्य प्राप्तोऽहमियती भुवम् । हत्वा भ्रूणममुं भूय: स्यामनन्तभव: कथम् ? ॥२४२।। इत्थं विमृश्य स सुरो भूषणैः कुण्डलादिभिः । भूषयित्वा च तं बालं पतज्ज्योतिभ्रंमप्रदम् ।।२४३।। वैताढ्यदक्षिणश्रेणौ रथनूपुरपत्तने । शनकैनन्दनोद्याने तूलिकायामिवाऽमुचत् ॥२४४॥युग्मम्।। किमेतदिति सम्भ्रान्तो दृष्ट्वा चन्द्रगतिश्च तम् । तन्निपातानुसारेण नन्दनोपवनं ययौ ॥२४५।। ददर्श तत्र तं बालं दिव्यालङ्कारभूषितम् । विद्याधरेन्द्र: सोऽपुत्रः पुत्रीयन्नाददे स्वयम् ॥२४६।। प्रेयस्या: पुष्पवत्याश्चाऽर्पयामास तमर्भकम् । देव्यद्य सुषुवे पुत्रमिति चाऽघोषयत् पुरि ।।२४७।। उच्चैर्जन्मोत्सवं तस्य राजा पौराश्च चक्रिरे । प्रभामण्डलसम्बन्धान्नाम्ना भामण्डलोऽभवत् ॥२४८॥ पुष्पवती-चन्द्रगत्योर्नेत्रकैरवचन्द्रमाः । स वर्धितं प्रववते खेचरीकरलालितः॥२४९। पाइतश्चाऽपहते पुत्रे विदेहा करुणस्वरा । रुदती पातयामास बन्धून शोकमहार्णवे ॥२५०॥ जनकोऽन्वेषयामास प्रेष्य प्रतिदिशं नरान् । तत्प्रवृत्तिं पुन: क्वाऽपि न प्राप सुचिरादपि ॥२५१॥ अनेकगुणसस्यानां प्ररोहोऽत्रेति मैथिलः । दुहितुर्युग्मजाताया: सीतेति विदधेऽभिधाम् ॥२५२।। कालेन गच्छता शोकस्तयोर्मन्दीबभूव च । शोको हर्षश्च संसारे नरमायाति याति च ॥२५३।। सीता च ववृधे सार्धं रूप-लावण्यसम्पदा । इन्दुलेखेव शनकैः कलापूर्णा बभूव च ॥२५४॥ क्रमादुद्यौवना पुण्यलावण्यलहरी सरित् । सरित्पतितनूजेव साऽलक्षि कमलेक्षणा ॥२५५॥ अनुरूपो वर: कोऽस्या भवितेति दिवानिशम् । अचिन्तयत् तज्जनको जनकः पृथिवीपतिः ॥२५६।। राज्ञां कुमारान् प्रत्येकं स वीक्ष्य चरचक्षुषा । व्यचारयन् महामात्यैर्न कोऽपि रुरुचे पुन: ।।२५७।। पतदाऽर्धबर्बरैरातरङ्गतमादिपार्थिवैः। दैत्यकल्पैरनल्पैर्भूर्जनकस्योपदुद्रुवे ।।२५८॥ तेषां रोधाय कल्पान्तवार्धिारामिवाऽक्षमः । दूतं दशरथाहूत्यै प्राहिणोन्मिथिलेश्वरः ।।२५९।। ऐक्ष्वाको दूतमायातं तमाहूय ससम्भ्रम: । सप्रसादं निषाद्याऽग्रे जगादैवं महामनाः ॥२६०॥ तस्याऽस्मत्सुहृदो दूरस्थितस्याऽपि त्वदागमात् । मन्ये सौहार्दमद्वैतं मयीन्दाविव वारिधेः ॥२६१।। कच्चिद् राष्ट्रे पुरे गोत्रे सैन्ये स्वाङ्गेऽन्यतोऽपि च। कुशलं मिथिलाभर्तुर्ब्रह्यागमनकारणम् ।।२६२।। दूतोऽप्यवादीन्मद्भर्तुः सत्स्वप्याप्तेष्वनेकशः। सुहृद्धृदयमात्मा वा त्वमेवाऽसि महाभुज! ॥२६३॥ जनकस्य सुखैर्दु:खैर्यत् सदा गृह्यसे यतः । विधुरेऽद्य स्मृतस्तेन त्वं यथा कुलदेवता॥२६४॥
वैताढ्याद्रेर्दक्षिणत: कैलासस्योत्तरेण च । सन्त्यनार्या जनपदा भूयांसो भीषणप्रजाः ॥२६५।। तेष्वर्धबर्बरो नाम देशो बर्बरकूलवत् । विद्यते दारुणाचारैर्नरैरत्यन्तदारुणः ॥२६६॥ मयूरमालनगरे तस्य देशस्य भूषणे। आतरगतमो नाम म्लेच्छराजोऽस्ति दारुणः ।।२६७।। शुक-मङ्कन-काम्बोजप्रभतीन विषयानपि । भञ्जते तनयास्तस्य नपीभय सहस्रशः ॥२६८।। १. राज्येप्सुरेव ला.॥२. महापुरे खंता.१-२, पाता. ॥ ३. बालम् ।। ४. शनैः॥५. शय्यायाम् ।। ६. पुत्रमिच्छन् ॥७. स भामण्डल० खंता.१-२, ला. मु.प्रभृतिषु ।। ८. अङ्कुरः ।। ९. समुद्रपुत्री-लक्ष्मीरिव ॥१०.विचारयन् ता. ॥ ११. आगत्य दैत्यकल्पैर्भूर्जनक० ला. ॥१२. प्रलयकालसमुद्रजलानाम् ।। १३. सुखे दुःखे यत् खंता.१ ।। १४. देशान् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org