________________
१६४
कलिकालसर्वज्ञश्री हेमचन्द्राचार्यप्रणीतं
श्रमस्थानेऽपि हि तयोरधिज्यकृतचापयोः । चकम्पे 'तपनोऽप्युच्चैः स्वस्य वेधाभिशङ्कया ॥ १९९॥ तृणाय मन्यमानौ तौ दो: स्थाम्नाऽपि द्विषां बलम् । कौतुकायैव मेनाते शस्त्रकौशलमात्मनः ॥ २००॥ शस्त्रास्त्रकौशलेनोच्चैर्दो: स्थाम्ना च तयोर्नृपः । अपि देवासुरादीनां स्वमजय्यममन्यत ॥ २०९॥ 1 अन्यदा धैर्यमालम्ब्य विक्रमेण कुमारयोः । इक्ष्वाकूणां राजधानीमयोध्यां नृपतिर्ययौ ॥२०२।। अभ्रात्य इवाऽऽदित्यो दुर्दशातिक्रमे भृशम् । द्योतमानः प्रतापेन महीं दशरथोऽन्वशात् ॥ २०३॥ तत्राऽपरेद्युः कैकेयी शुभस्वप्नाभिसूचितम् । असूत भरतं नाम सुतं भरतभूषणम् ॥२०४॥ शत्रुघ्नमभिधानेन शत्रुघ्नभुजविक्रमम् । अजीजनत् सुप्रभाऽपि नन्दनं कुलनन्दनम् ॥२०५॥ स्नेहाद् भरत शत्रुघ्नाववियुक्तौ दिवानिशम् । बलदेव-वासुदेवावभातामपराविव ॥ २०६ ॥ रेजे राजा दशरथश्चतुर्भिरपि तैः सुतैः । गजदन्ताकृतिनगैरिवँ मेरुमहीधरः ॥२०७॥
• इतश्च जम्बूद्वीपेऽस्मिन् क्षेत्रे चाऽत्रैव भारते । दारुग्रामे वसुभूतिरिति नाम्नाऽभवद् द्विजः ॥ २०८॥ पत्न्यां तस्याऽनुकोशायामतिभूतिरभूत् सुत: । अतिभूते रपि पत्नी बभूव सरसाभिधा ॥ २०९ काननाम्ना विप्रेण जातरागेण सैकदा । अपजहे च्छलेनाऽऽशु किं न कुर्यात् स्मरातुरः ? || २१०॥ तामन्वेष्टुं महीमाटाऽतिभूतिर्भूतवद् भृशम्। सुत- स्नुषार्थेऽनुकोशा-वसुभूती च चेरतुः ॥ २११|| सुत - स्नुषे अपश्यन्तौ पर्यटन्तावथाऽन्यदा । एकं ददृशतुः साधु ववन्दाते च भक्तितः ॥ २१२ ॥ श्रुतधर्मौ च तत्पार्श्वेतौ द्वौ जगृहतुर्व्रतम् । गुर्वादिष्टाऽनुकोशाऽगादायिकां कमलश्रियम् ॥ २१३॥ तौ विपद्य च सौधर्मे कल्पे देवौ बभूवतुः । व्रते ह्येकाहमात्रेऽपि न स्वर्गादन्यतो गतिः ॥ २१४ ॥ ॥ वसुभूतिस्ततश्च्युत्वाऽत्रैव वैताढ्यपर्वते । रथनूपुरनाथोऽभून्नाम्ना चन्द्रगतिर्नृपः ।। २१५ ।। ततश्च्युत्वाऽर्नुकोशाऽपि तस्य विद्याधरप्रभोः । अभूत् पुष्पवती नाम भार्याऽऽर्यचरिता सती ॥२१६॥ तदा च साऽपि सरसा कामपि प्रेक्ष्य संयताम् । प्रव्रज्य मृत्वा चेशाने देवी समुदपद्यत ॥ २१७|| सरसाविरहादार्तोऽतिभूतिश्च विपद्य सः । चिरं भ्रान्त्वा च संसारं हंसपोतः कदाऽप्यभूत् ॥२१८॥ भक्ष्यमाणोऽन्यदा श्येनेनोपसाधु पपात सः । कैण्ठस्थासोर्नमस्कारं तस्य साधुर्ददौ च सः ॥ २१९॥ विपन्नः स नमस्कारप्रभावेणाऽतिभूयसा । दशवर्षसहस्रायुः किन्नरेषु सुरोऽभवत् ॥ २२०॥ च्युत्वा पुरे विदग्धे च प्रकाशसिंहभूपतेः । सुतोऽभूत् प्रवरावल्यां पत्न्यां कुण्डलमण्डितः ॥२२९॥ भोगासक्त: कयानोऽपि चिरं भ्रान्त्वा भवाटवीम् । पुरे चक्रपुरे चक्रध्वजराजपुरोधसः ॥ २२२ ॥ धूमकेशाभिधानस्य स्वाहानाम्न्यामजायत । सूनुः सधर्मचारिण्यां नामधेयेन पिङ्गलः || २२३ ॥ युग्मम् || || राज्ञश्चक्रध्वजस्याऽतिसुन्दरीनामया सह । पुत्र्या पपाठैकगुरोरन्तिके स तु पिङ्गलः ॥२२४॥ कालेन गच्छता जाते त्वनुरागे परस्परम् । तां छलात् पिङ्गलो हत्वा विदग्धनगरे ययौ ॥ २२५॥ विज्ञानरहितस्तत्र तृण-काष्ठादिविक्रयात्। आत्मानमर्जिजीवत् स निर्गुणस्योचितं ह्यदः ॥२२६॥ तां चाऽतिसुन्दरीं तत्राऽद्राक्षीत् कुण्डलमण्डितः । अन्योऽन्यमनुरागश्च तत्कालमभवत् तयोः ॥ २२७॥ अपजह्रे च तां राजपुत्रः कुण्डलमण्डितः । पितुर्भिया दुर्गदेशे पल्लीं कृत्वा च 'संस्थितः ॥२२८॥ विरहाच्चाऽतिसुन्दर्या उन्मत्त इव पिङ्गलः । क्ष्मां भ्रमन्नेकदाऽऽचार्यमार्यगुप्ताख्यमैक्षत ॥ २२९ ॥ श्रुत्वा धर्मं च तत्पार्श्वे व्रतं जग्राह पिङ्गलः । परं प्रेमाऽतिसुन्दर्यां न मुमोच कदाचन ॥ २३०॥ पल्लीस्थितो दशरथभुवं कुण्डलमण्डितः । सर्वदा लुण्टयामास सारमेय इव च्छलात् ॥२३१॥ सामन्तो बालचन्द्राख्यस्ततो दशरथाज्ञया । प्रदाय सौप्तिकं बद्ध्वा तमानैषीत् तदन्तिके ॥ २३२ ॥ कालेन तं दशरथोऽमुचत् कुण्डलमण्डितम् । कोप: शाम्यति महतां दीने क्षीणे ह्यरावपि ॥२३३॥
(सप्तमं पर्व
१. तपनोऽप्युच्चैस्तस्थौ मु. ॥ २. मेघात्यये ॥ ३. गजदन्ताकारपर्वतैः ॥ ४. ० रिवामरमहीधरः ता. ।। ५.६.७.८. अनुकेशा पाता ।। ९. संगतीं ला. छा. पा.; साध्वीम् ॥ १०. कण्ठगतप्राणस्य ॥ ११. आजीविकामकरोत् ॥ १२. पितुर्भयाद् हे ।। १३. स स्थितः खंता. २, पाता ।। १४. रात्रियुद्धम् ।। १५. दशरथोऽमुञ्चत्० खंता. १ ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org