________________
चतुर्थः सर्ग:)
त्रिषष्टिशलाकापुरुषचरितम् । हरिवाहणमुख्यानां रथैर्निजरथं रयात् । प्रत्येकं युगपदिव 'छेका कैकेय्ययोजयत् ॥१६५॥ शीघ्रवेधी दशरथोऽप्येकैकमपि तान् रथान् । अखण्डयदखण्डौजा आखण्डल इवाऽपरः ॥१६६।। इत्थं विद्रावयामास सर्वानपि स भूपतीन् । उपयेमे च कैकेयीं जगतीमिव जङ्गमाम् ॥१६७।। उवाच च नवोढां तां राजा दशरथो रथी। वरं याचस्व देवि! त्वत्सारथ्येनाऽस्मि रञ्जितः ॥१६८।। याचिष्ये समये स्वामिन्! न्यासीभूतोऽस्तु मे वरः । इत्यभाषत कैकेयी राजाऽपि प्रत्यपादि तत् ॥१६९।। समं श्रियेव कैकेय्या परसैन्यैर्हठाहृत । असङ्ख्यातपरीवारो राजा राजगृहं ययौ ॥१७०।। जगाम राजा जनकोऽप्यात्मीयां नगरीमथ । समयज्ञा हि धीमन्तो न तिष्ठन्ति यथा तथा॥१७१।। पराजा दशरथस्तत्र विजित्य मगधेश्वरम् । तत्रैवाऽस्थान्न तु ययावयोध्यां शङ्कया तया ॥१७२।। तत्राऽपराजितामुख्यमन्त:पुरमिलापतिः । निजमानाययामास राज्यं सर्वत्र दोष्मताम् ॥१७३।। राज्ञीभी रममाणोऽस्थात् पुरे तत्र चिरं नृपः । विशेषत: प्रीतये हि राज्ञां भूः स्वयमर्जिता ।।१७४॥ SEAपराजिताऽन्येधुर्गज-सिंहेन्दु-भास्करान् । स्वप्नेऽपश्यन्निशाशेषे बलजन्माभिसूचकान् ।।१७५।। ब्रह्मलोकात् परिच्युत्य तदा देवो महर्द्धिकः । कुक्षाववातरत् तस्या: पुष्करिण्यां मरालवत् ॥१७६।। नृपुण्डरीकं वर्णेन पुण्डरीकविडम्बनम् । सम्पूर्णलक्षणं सूनुं सुषुवेऽथाऽपराजिता ॥१७७।। प्रथमापत्यरत्नस्य तस्याऽऽस्यकमलेक्षणात्। राकेन्ददर्शनादब्धिरिवाऽतिमुमुदे नृपः॥१७८।। नृपश्चिन्तामणिरिव ददौ दानं तदाऽर्थिनाम् । लोकस्थितिरियं जाते नन्दने दानमक्षयम् ॥१७९।। महान्तमुत्सवं चक्रुस्तदा लोकास्तथा स्वयम् । यथाऽभूवन्नतिमुदो राज्ञो दशरथादपि ॥१८०॥ नृपौकसि सेनाथानि दूर्वा-पुष्प-फलादिभिः । निन्युः कल्याणपात्राणि पूर्णपात्राणि नागराः ॥१८१।। सर्वत्र कलगीतानि सर्वत्र घुसृणच्छटाः । सर्वत्र तोरणश्रेण्यो व्यधीयन्ते तदा पुरि ॥१८२।। अचिन्तितोपनीतानि प्राभृतानि महीभृताम् । तदा राज्ञे समाजग्मुस्तस्य सूनो: प्रभावतः ॥१८३॥ पद्यानिवासपद्मस्य पद्म इत्यभिधां नपः । सनोस्तस्याऽकरोत सोऽभत प्रथितो राम इत्यपि ॥१८४॥ गज-सिंहॉर्क-चन्द्राग्नि -श्री-समुद्रान् निशात्यये। स्वप्नेऽपश्यत् सुमित्राऽपि विष्णुजन्माभिसूचकान् ॥१८५।। देवलोकात् परिच्युत्य त्रिदशः परमर्द्धिकः । तदा देव्या: सुमित्राया उदरे समवातरत् ॥१८६।। समये प्रावूडम्भोदवर्णं सम्पूर्णलक्षणम् । सुमित्राऽपि जगन्मित्रं पुत्ररत्नमजीजनत् ॥१८७।। पुरचैत्येषु सर्वेषु श्रीमतामर्हतां तदा। विशेषेणाऽष्टधा पूजां स्नात्रपूर्वं व्यधान्नृपः॥१८८॥ नृपतिर्मोचयामास धृतान् बन्दिरिपूनपि। को वा न जीवति सुखं पुरुषोत्तमजन्मनि ॥१८९।। सोच्छ्वास: सप्रजो राजा न केवलमभूत् तदा । वसुमत्यपि देवी द्रागुच्छ्वासं प्रत्यपद्यत ॥१९०॥ रामजन्मनि भूपालो यथाऽकृत महोत्सवम् । तथा तमधिकं चक्रे हर्षे को नाम तृप्यति ? ॥१९१।। नाम नारायण इति विदधे तस्य पार्थिवः । स लक्ष्मण इति ख्यातापरनामा च भुव्यभूत् ॥१९२॥ पतौ द्वावपि पितुः कूर्च-कचाकर्षणशिक्षकम् । विशिष्टं प्रापतुर्बाल्यं क्रमेण क्षीरपायिणौ ॥१९३॥ धात्रीभिर्लाल्यमानौ तावपश्यत् परया मुदा । मुहुर्मुहुर्महीपाल: स्वदोर्दण्डाविवाऽपरौ ॥१९४।। संञ्चेरतुः सदस्यानामङ्कादकं महीभुजाम् । ते मङ्गेषु वर्षन्तौ तौ स्पर्शेन सुधामिव ॥१९५।। क्रमेण तौ वर्धमानौ नील-पीताम्बरौ सदा। विजह्रतुः पादपातै: कम्पयन्तौ महीतलम् ॥१९६।। कलयामासतुस्तौ तु क्रमेण सकला: कलाः । साक्षीकृतकलाचार्यो पुण्यराशी इवाऽङ्गिनौ ॥१९७।। लीलामुष्टिप्रहारेण हिमकर्परलीलया। दलयामासतुस्तौ च गिरीनपि महौजसौ ॥१९८|| १. एककालमिवैकैकं ला. खंता.१ ॥ २. त्वेका मु. ॥ ३. इन्द्रः ॥ ४. पृथ्वीम् ।। ५. बलादानीतैः ।। ६. बलदेवजन्मसूचकान् ।। ७. पूर्णिमाचन्द्रदर्शनात् ।। ८. लोके स्थिति ता. हे.; लोकमर्यादा ॥ ९. सहितानि ॥१०. सुवर्णपात्राणि ।।११. कुङ्कुमच्छटाः ।। १२. न्यधीयन्त हे. ॥१३. महीभृतां मु.॥ १४. लक्ष्म्या निवासे कमलसमस्य ।।१५. वासुदेवजन्मसूचकान्॥१६. वर्षामेघसम(श्याम)वर्णम्॥१७. भक्त्या विशेषेण मो. ॥१८. मही॥१९. ख्यातोऽपरनाम च भुव्यधात् ता.; ख्यातोऽपरनाम्ना च भुव्यभूत् मु.॥२०. श्मश्रु-केशाकर्षणे शिक्षकम् ।। २१. सञ्चेरतुरनेकेषा० खंता.१, ला. ।। २२. मुहुरङ्गेषु रसंपा. ।। २३. चरणघातैः ।। २४. हिमपात्रस्य लीलया।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org