________________
१६२
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व उत्पत्तिरेव हि तयोनिषिद्धा बीजनाशतः । वचो नैमित्तिकस्याऽतो मिथ्यैव हि भविष्यति ॥१३३॥ पआमेत्युक्तो रावणेन स्ववेश्माऽगाद् बिभीषणः । तत्रस्थो नारदस्तच्च श्रुत्वा दशरथं ययौ ।।१३४।। तं देवर्षि दशरथोऽभ्युत्तस्थौ दूरतोऽपि हि । नमस्कृत्याऽऽसयामास गुरुवद् गौरवेण च ॥१३५।। त्वमायासी: कुत: स्थानात् पृष्टस्तेनेति नारदः । आख्यत् पूर्वविदेहेषु गतोऽहं पुण्डरीकिणीम् ॥१३६।। श्रीसीमन्धरनाथस्य द्रष्टुं निष्क्रमणोत्सवम् । सुरासुरकृतं तं च दृष्ट्वा मेरुमगामहम् ॥१३७।। तत्राऽभिवन्द्य तीर्थेशान लङ्कायां गतवानहम । तस्यां शान्तिगहे शान्तिं नत्वाऽगां रावणालयम॥१३. रावणस्य वधस्तत्र जानक्यर्थे त्वदात्मजात् । नैमित्तिकेन केनाऽपि कथ्यमानः श्रुतो मया ॥१३९।। श्रुत्वा बिभीषणस्तत्तु हन्तुं त्वां जनकं तथा । कृतप्रतिज्ञो नचिरादिहैष्यति महाभुजः ॥१४०॥ एतत् सर्वं परिज्ञाय लङ्कापुर्या: ससम्भ्रमः । साधर्मिक इति प्रीत्या तव शंसितुमागमम् ॥१४१।। तच्छुत्वा भूभुजाऽभ्यर्च्य विसृष्टो नारदो द्रुतम् । तथैव कथयामास जनकायाऽपि भूभुजे॥१४२॥ मन्त्रिणां तत् समाख्याय राजा राज्यं समर्प्य च। निर्ययौ योगविदिव चिकीर्षुः कालवञ्चनाम् ॥१४३।। मूर्ति दाशरथीं लेप्यमयीमन्तपालयम् । न्यधुश्च मन्त्रिणो ध्वान्ते विद्विषन्मोहहेतवे ॥१४४।। जनकोऽपि तथा चक्रे तथा तन्मन्त्रिणोऽपि हि। तौ त्वलक्षौ दशरथ-जनको भ्रमतुर्महीम् ॥१४५|| बिभीषणश्च संरम्भादेत्य सैन्तमसेऽसिना । लेप्यमय्या दशरथमूर्तेश्चिच्छेद मस्तकम् ।।१४६।। जज्ञे कलकलस्तत्र नगरे सकलेऽपि हि। आक्रन्दध्वनिरुत्तस्थावन्तरन्त:पुरं महान् ॥१४७।। सन्नह्य समधावन्त सामन्ता: साङ्गरक्षकाः। विदधुर्मतकार्याणि गूढमन्त्राश्च मन्त्रिणः ॥१४८॥ मृतं दशरथं ज्ञात्वा ययौ लङ्कां बिभीषणः । अकिञ्चित्करमेकं तु नाऽवधीन्मिथिलेश्वरम् ॥१४९।। मिथश्च मैथिलैक्ष्वाको भ्राम्यन्तौ मिलितावुभौ । एकावस्थासुहृदौ तावुत्तरापथमीयतुः ॥१५०।। पाराज्ञः शुभमतेस्तत्र पुरे कौतुकमजले । दुहितु: कैकेयीनाम्न्याः पृथ्वीश्रीकुक्षिजन्मनः ॥१५१।। द्रोणमेघसहोर्या द्वासप्ततिकलानिधेः । तौ स्वयंवरमाकर्ण्य तन्मण्डपमुपेयतुः ॥१५२॥युग्मम्।। हरिवाहणमुख्यानां तौ मध्ये पृथिवीभुजाम् । हंसाविवाऽधिपाथोजमधिमञ्चमुपेयतुः ॥१५३॥ कैकेयी कन्यकारत्नं रत्नालङ्कारभूषिता। साक्षाल्लक्ष्मीरिवाऽभ्यागात् तं स्वयंवरमण्डपम् ॥१५४|| दत्तहस्ता प्रतीहार्या पश्यन्ती सा नृपान् क्रमात् । नक्षत्राणीन्दुलेखेव व्यतिचक्राम भूयसः ॥१५५।। क्रमेण सा दशरथं प्राप गङ्गेव सागरम् । तस्थौ तत्रैव निर्मुक्तनाङ्गरा नौरिवाऽम्भसि ॥१५६॥ सद्यो रोमाञ्चिततनु: कैकेय्यतेनुसम्मदा। तत्राऽक्षिपद् वरमालां निजां भुजलतामिव ॥१५७।। हरिवाहणमुख्याश्च नृपा न्यकृतमानिन: । मानिनो जज्वलुः क्रोधाज्ज्वलज्ज्वलनसन्निभाः॥१५८।। अयं वराक एकाकी वृत: कार्पटिकोऽनया। आच्छिद्यमानामस्माभिरिमिकों त्रास्यते कथम् ? ॥१५९।। साटोपमिति जल्पन्तोऽनल्पं स्वशिबिरेषु ते । गत्वा संवर्मयामासुः सर्वे सर्वात्मनाऽपि हि॥१६०॥ महीपति: शुभमति: पक्षे दशरथस्य स: । सन्ननाह महोत्साहः सेनया चतुरङ्गया ।।१६१॥ कुरु प्रिये! सारथित्वं यथा मथ्नाम्यमून् द्विषः । इत्यवोचत कैकेयीं तदैकाकी हि राघवः ॥१६२।। कैकेयी रश्मिमादायाऽध्यारुरोह महारथम् । द्वासप्ततावपि कलास्वभिज्ञा सा हि धीमती॥१६३।। धन्वी निषङ्गी सन्नाही राजा दशरथोऽपि तम् । अध्यास्त रथमेकोऽपि तृणवद् गणयन् परान् ।।१६४।। १. जीवनाशत: पाता. ॥ २. स्तच्च खंता.१, ला. मु.॥३. गाढतमसि ।। ४. जनक-दशरथौ ॥५. एकावस्थौ सुहृदौ मु.॥६. कैकयी० ता. ।। ७. द्रोणमेघसोदराया मु. ।। ८. पङ्कजे ॥ ९. निर्मुक्तनागराः खंता.१-२, पाता. ।। १०. अतनुहर्षा ।। ११. न्यकृतिमानिन: ला.; तिरस्कृतं आत्मानं मन्यमानाः॥१२. वने मु.॥१३. इमां कैकेयीम् ।। १४. सज्जीबभूवुः ॥१५. बध्नाम्यमन् कां.॥१६. दशरथः॥१७. निषङ्गी-असिधरः,सन्नाही-कवचधरः ।। * खंता.१-प्रतौ १३६त: १३९ श्लोकाः १४१तमश्लोकश्च न दृश्यन्ते । ला. प्रतौ १३६त: १३९ श्लोका: पार्श्वभागे लिखिताः, तदन्ते च 'पाठान्तरं' इति टिप्पितं वर्तते । एतच्छलोकचतुष्कस्थाने च ला.सज्ञकप्रताविमे श्लोका: सन्ति - "दत्त्वाऽऽशीर्णा( )रदोऽवादीद् ऋषभस्वामिनः प्रभोः । इक्ष्वाकुसज्ञे वंशे त्वं महात्मन्! यदजायथाः ॥१३६।। परमः श्रावकश्चाऽसि तेन शंसामि ते हितम् । सन्त: सतामुपेक्षन्ते न जातु विपदागमम् ॥१३७।। जानक्यर्थे भवत्पुत्राद् रावणस्य वधोऽधुना। नैमित्तिकेन केनाऽपि कथितस्तथ्यभाषिणा ॥१३८॥"
Jain Education International
www.jainelibrary.org