________________
१६१
चतुर्थः सर्गः)
त्रिषष्टिशलाकापुरुषचरितम् । बोधार्ह इति तं ज्ञात्वा जगौ तस्मै महामुनिः । मद्य-मांसपरीहारप्रधानं धर्ममार्हतम् ॥९९।। सोदासोऽपि हि तं धर्ममाकर्ण्य चकितोऽभवत् । प्रसन्नहृदयो भूत्वा श्रावकः परमोऽभवत् ॥१००॥ पाइतो महापुरपुरे कोऽप्यपुत्रो नृपोऽमृत । पञ्चदिव्याभिषिक्तोऽथ सोदासस्तत्र राडभूत् ॥१०१।। सोदास: प्राहिणोद् दूतमथ सिंहरथं प्रति । सोदासस्य कुरुष्वाऽऽज्ञामिति दूतोऽप्युवाच तम् ॥१०२॥ दूत: सिंहरथेनोच्चैस्तिरस्कृत्य व्यसृज्यत । आगत्याऽऽख्यच्च सोदासभूभुजे स यथातथम् ॥१०३।। सोदासोऽथ सिंहरथं सोऽपि सोदासपार्थिवम् । अभ्यषेणयतां योद्धं युयुधाते च तौ पथि ॥१०४।। सोदासोऽपि सिंहरथं जित्वा जग्राह पाणिना। तस्मै राज्यद्वयं चाऽदात् प्रवव्राज स्वयं पुनः ॥१०५।। पसूनुः सिंहरथस्याऽभूदु राजा ब्रह्मरथस्ततः । चतुर्मुखस्ततो हेमरथः शतरथस्ततः॥१०६॥ अथोदयपृथु-र्वारिरथ इन्दुरथस्ततः । आदित्यरथ-मान्धातृ-वीरसेनास्तत: क्रमात् ॥१०७।। प्रतिमन्युनृपस्तस्मात् पद्मबन्धुनृपस्ततः । रविमन्युनृपस्तस्माद् वसन्ततिलकस्ततः ॥१०८।। कुबेरदत्तोऽथ कुन्थु-शरभ-द्विरदा: क्रमात् । ततश्च सिंहदशनो हिरण्यकशिपुस्ततः ॥१०९।। पुञ्जस्थलः ककुत्स्थोऽथ रघुरेवं नृपेषु तु । केषुचिन्मोक्षमाप्तेषु स्वर्गमाप्तेषु केषुचित् ।।११०॥
अनरण्यो नाम राजा शरण्य: शरणार्थिनाम् । आनृण्यकृत् प्रणयिनामभूत् साकेतपत्तने ॥१११॥ तस्याऽभूतामुभौ पुत्रौ पृथ्वीदेव्याश्च कुक्षिजौ। एकोऽनन्तरथो नाम्ना तथा दशरथोऽपरः ॥११२॥ इतोऽनरण्यस्य सुहृत् सहस्रकिरणो नृपः । रावणेन जितो युद्धे वैराग्याद् व्रतमाददे ॥११३॥ तत्सख्यादनरण्योऽपि श्रियं न्यस्य लघौ सुते । मासजातेऽनन्तरथसहितो व्रतमाददे ॥११४॥ अनरण्योऽगमन्मोक्षमथाऽनन्तरथो मुनिः । तप्यमानस्तपस्तीव्र विजहार वसुन्धराम् ॥११५।। राज्यभृत् क्षीरंकण्ठोऽपि राजा दशरथः पुनः । वयसा विक्रमेणेव वृद्धिमासादयत् क्रमात् ॥११६।। राजा राजसु सोऽराजद् द्विजराज इवोडुषु । ग्रहेष्विव ग्रहराज: सुमेरु: पर्वतेष्विव ॥११७॥ तत्र स्वामिनि लोकस्य परचक्रादिसम्भवः । अदृष्टपूर्व एवाऽऽसीत् खपुष्पवदुपद्रवः ॥११८।। स वित्ताभरणादीनि यथेच्छं दददर्थिनाम् । कल्पद्रुमाणां मद्याङ्गादीनामेकादशोऽभवत् ।।११९।। निजं वंशक्रमायातं तत्साम्राज्यमिवाऽनघम् । स दधावार्हतं धर्मं सर्वदाऽप्यप्रमद्वरः ॥१२०॥ दभ्रस्थलपुरेशस्य सुकोशलमहीपतेः । कन्यां पवित्राममृतप्रभाकुक्षिसमुद्भवाम् ॥१२१।। नाम्नाऽपराजितां चारुरूप-लावण्यशालिनीम् । उदुवाह स भूपालो जयश्रियमिवाऽऽहवे ।।१२२॥युग्मम्।। सुबन्धुतिलकस्याऽथ पुरे कमलसङ्कुले। मित्रादेवीकुक्षिजातां केकयीमादिनामतः॥१२३॥ सुमित्रामन्यनाम्ना च स्वकीर्तिमिव निर्मलाम् । पर्यणैषीद् दशरथ: शशाङ्क इव रोहिणीम् ।।१२४||युग्मम्॥ पुण्यलावण्य-सौन्दर्यवर्याङ्गी सुप्रभाभिधाम् । अन्यामप्युपयेमे स राजपुत्रीमनिन्दिताम् ।।१२५॥ सुखं वैषयिकं ताभिर्बुभुजे भूभुजां वरः । अबाधमानो धर्मार्थौ स विवेकिशिरोमणिः ॥१२६।। पाइतश्च भरतस्याऽर्धं भुञ्जानो दशकन्धरः । सभायामास्थितोऽपृच्छदिति नैमित्तिकोत्तमम् ॥१२७।। अमरा अपि नाम्नैवाऽमरान परमार्थतः । भाव्यवश्यं तु सर्वस्य मृत्युः संसारवर्तिनः ॥१२८|| तत्किं मे स्वपरीणामाद् विपत्ति: परतोऽथवा ? । तन्ममाऽऽचक्ष्व नि:शङ्कमाप्ता हि स्फुटभाषिणः ।।१२९।। सोऽप्याचख्यौ भविष्यन्त्या जानक्या: कारणेन ते । भविष्यतो दशरथपुत्रान्मृत्युभविष्यति ॥१३०॥ बिभीषणो बभाषेऽथ यद्यप्यस्य सदा ऋतम् । वचस्तथाऽपि ह्यनृतीकरिष्याम्येतदाश्वहम् ।।१३१।। जनकं दशरथं च कन्या-तनययोस्तयोः। अनर्थयोर्बीजभूतं हनिष्याम्यस्तु नः शिवम् ।।१३२।। १. चकितोऽभवत् मु.॥२. नृपो मृत: मु. ॥३. विसृज्य च खंता.१।४. तद् खंता.१, पाता. ला.॥५. मिथ: खंता.२, मु. ।। ६. सिंहरथस्याऽथ राजा ब्रह्मरथोऽभवत् खंता.१, ला. ।। ७. प्रतिबन्धुनृप० मु.॥ ८. स्तन्यप: ।। ९. चन्द्रः ।। १०. सूर्यः ।। ११. कल्पद्रुमेभ्यो मद्याङ्गादिभ्य एका० खंता.१, पाता. ला. ॥ १२. निजवंश. खंता.१-२, पाता. मु.प्रभृतिषु ।। १३. कैकेयी० मु.; सुमित्राया नामाऽपि केकयी', इति तु महदाश्चर्यकारकम् ।। १४. मित्राभूः सुशीला चेति सुमित्रेत्यपराभिधाम् खंता.२, पाता. मु. ॥१५. ०वर्याङ्गीसुप्रभा० मु.॥१६. विवेकशिरोमणि: मु.॥ १७. सत्यम् ।। १८. करिष्यामि तदाश्वहम् मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org