________________
१६० कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
(सप्तमं पर्व व्याघ्यैवं खाद्यमानोऽपि शुक्लध्यानमुपेयिवान् । तत्कालोत्केवलो मोक्षं सुकोशलमुनिर्ययौ ॥६४॥ मुनिः कीर्तिधरः सोऽपि समुत्पादितकेवलः । क्रमादासादयामास सुखाद्वैतास्पदं पदम् ॥६५॥ इतश्च चित्रमालाऽपि सुकोशलनृपप्रिया। हिरण्यगर्भ सुषुवे नन्दनं कुलनन्दनम् ॥६६।। आगर्भवासनृपतेस्तस्य प्राप्तस्य यौवनम्। सधर्मचारिण्यभवन्मृगनेत्रा मृगावती ॥६७।। राज्ञो हिरण्यगर्भस्य मृगावत्यामजायत । तनयो नघुषो नाम वपुषा स इवाऽपरः ॥६८॥ हिरण्यगर्भः स्वेऽपश्यन्मौलौ पलितमन्यदा। तृतीयवयसः सत्यङ्काराभमुपसर्पतः ॥६९।। तदैव जातवैराग्य: स राजा नघुषं सुतम् । स्वे राज्ये न्यस्य विमलमुन्यन्ते व्रतमग्रहीत् ॥७०।। पानघुषस्य नृसिंहस्य सिंहिका नाम पत्न्यभूत् । तया च रममाण: स पैतृकं राज्यमन्वशात् ।।७१।। उत्तरापथभूपालान् नघुषो जेतुमन्यदा। जगाम सिंहिकादेवीं निजे राज्ये मुमोच च ॥७२॥ नाऽस्तीह नघुष इति दक्षिणापथभूभुजः । तदैत्याऽयोध्यां रुरुधुः छलनिष्ठा हि वैरिणः ॥७३।। तदा च सिंहिका देवी पुंवत् तानभ्यषेणयत् । जिगायाऽनाशयच्चाऽऽशु किं सिंही हन्ति न द्विपान् ? ॥७४।। जित्वोत्तरापथं राजा नघुषश्चाऽऽगतोऽन्यदा । शुश्राव च जयोदन्तं पत्न्या दध्याविदं च सः ॥७५।। स्पष्टधार्थ्यमिदं कर्म दुष्करं मादृशामपि। महाकुलप्रसूतानां महिलानां न युज्यते ॥७६॥ तन्नमसती सेयं सत्यो हि पतिदेवताः। पतिसेवां विना नाऽन्यजानते क्वेशं पुनः ॥७७॥ इति चेतसि निश्चित्य सिंहिकां प्रेयसीमपि । राजा परिजहाराऽऽशु न्यजितप्रतिमामिव ॥७८।। पानघुषस्याऽन्यदा दाहज्वरः समुदपद्यत । दुष्टारिवन्न चाऽशाम्यदुपचारशतैरपि ॥७९॥ स्वसतीत्वज्ञापनाय भर्तुरर्त्तिच्छिदेऽपि हि। तत्समीपं तदेयाय तोयमादाय सिंहिका ॥८॥ सा सत्यश्रावणां चक्रे त्वां विना नाथ! चेन्मया। पुमान्नैषि कदाऽप्यन्यो ज्वरस्तदपयातु ते॥८१।। ततश्च साऽम्भसा तेनाऽभिषिषेच निजं पतिम् । तदैव च ज्वरोन्मुक्त: सुधाधौत इवाऽभवत् ।।८२।। सिंहिकाया उपरिष्टात् पुष्पवृष्टिं सुरा व्यधुः । राजाऽपि बहु मेने तां ततः प्रभृति पूर्ववत् ॥८३॥ काले गच्छति जज्ञे च नघुषस्य महीपतेः । सिंहिकायां महादेव्यां सोदासो नाम नन्दनः ॥८४।। सोदासे राज्यमारोप्याऽपरेधुनघुषो नृपः । एकमौपयिकं सिद्धेः परिव्रज्यामुपाददे ॥८५।। पसोदासनृपते राज्येऽर्हतामष्टाह्निकोत्सवे । मन्त्रिणो घोषयामासुरमारिं पूर्वराज्यवत् ।।८६।। सोदासमपि ते प्रोचुरहदष्टाह्निकोत्सवे। नाऽखादि मांसं त्वत्पूर्वैः खादीस्त्वमपि मा स्म तत् ॥८७।। सोदासोऽप्यवदत् सूदं सदा मांसादनप्रियः । प्रच्छन्नं मांसमानेयं त्वयाऽवश्यमत: परम् ।।८८|| सूदोऽप्यमार्यां घुष्टायां मांसं प्रापन कुत्रचित् । न ह्यसत् प्राप्यते क्वाऽपि केनाऽप्याकाशपुष्पवत् ।।८९।। मांसाप्राप्तिरित इतो राजाज्ञा बाधते च माम् । किं करोमीति विमृशन् सूदोऽपश्यन्मृतार्भकम् ।।९०॥ मृतार्भकस्य तस्यैवाऽऽदाय मांसं स वल्लव: । संस्कृत्य तैस्तैर्विज्ञानैः सोदासाय ददौ तदा ॥११॥ सोदासोऽपि हि तन्मांसमश्नन्नेवमवर्णयत् । अहो! अमुष्य मांसस्य कोऽप्यतिप्रीणको रसः ॥१२॥ सूपकारं च पप्रच्छ जन्मापूर्वमिदं मम । कस्य जीवविशेषस्य मांसमाख्याहि सर्वथा ॥१३॥ नृमांसमिति सोऽप्याख्यद् राजाऽवोचदतः परम् । अद्येव दद्या: संस्कृत्य प्रत्यहं नृपेलं मम ॥१४॥ डिम्भान् सूदोऽप्यथाऽहार्षीत् तदर्थं प्रत्यहं पुरे । न हि भीराज्ञया राज्ञामन्यायकरणेऽपि हि ॥९५।। इति दारुणकर्माणं नृपं विज्ञाय मन्त्रिणः । धृत्वाऽत्यजन्नरण्यान्तर्गृहोत्पन्नमिवोरगम् ॥९६।। पतैश्च सोदाससू: सिंहरथो राज्येऽभिषिच्यत । सोदासोऽप्याट वसुधां मांसं खादन् निरर्गलम् ॥९७।। सोदासेनाऽपि चाऽन्येधुर्धमता दक्षिणापथे। महर्षिः कोऽपि ददृशे सोऽथ धर्ममपृच्छ्यत ॥९८।। १. तत्कालमुत्पन्नं केवलं यस्य सः ॥२-३. सुकोसल० खंता.२, पाता. ॥ ४. “आगच्छतः" इति ला.टि ।। ५. सिंहिकां देवीं निजराज्ये मु.॥ ६. तदाऽयोध्यां रुरुधिरे मु. ॥७. व पुनरीदृशम् रसंपा. ॥ ८. न्यङ्गितां० ला.; न्यगित० मु.; खण्डितप्रतिमामिव ।।९. पुमान्नैक्षि मु.॥१०. सूदः ।। ११. संस्कृतस्तैरविज्ञातैः ला. ॥१२. नरमांसम् ।। १३. महर्षिरेको ता.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org